अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 801, कुल 2600 में से
संदर्भ में पढ़ेंकरणं च द्योतयति । अथवा सर्वपदार्थानामनेका प्रतिपत्तिर्बहुधोपयोगो वेदे दृश्यते । यथा चतुर्धाकरणादि, परिधिप्रहरणादि, तुषोपवापादि, तद्विद्यमाने क्रियते, नाविद्यमाने । तथा यत्र ये पदार्था न सन्ति तत्र कर्म तदभावेऽपि भवति । तथाहि दृश्यते । पर्वते सोमवाहकाऽनोऽभाववत् । 'यज्ञेन यज्ञमयजन्त देवाः' । भाष्यप्रकाशः । अग्निहोता आश्विनाध्वर्यू उभौ हि वै देवाना५ शमितारौ अग्निगुधापापचेत्यादिश्रुत्या ज्ञेयम् । प्रकारान्तरेण हेतुं व्याकुर्वन्ति अथवेत्यादि । नाविद्यमाने इत्यन्तमेकधा प्रतिपत्तिर्व्याख्याता । प्रकारान्तरं दर्शयन्ति तथा यत्रेत्यादि । सोमवाहकाऽनोऽभाववदिति । सोमवाहकं यदनः शकटं तदभाववत् । तथा च कृष्णलेष्ववघातो यथा वैतुष्यरूपद्वारबाधाल्लुप्यते, तथात्र मार्गरूपद्वार- बाधादनोऽपि लुप्यत इति तस्मि