अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 804, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७११ नित्यत्वान्न विरोधः शब्दे । कथमेवमत आह । प्रत्यक्षानुमानाभ्याम् । प्रत्यक्षं ताव- दिदानीमपि यजमानो यजमानकुल्यस्त्वृत्विजश्च स्वकुल्यं वेदादेवावगच्छन्ति । न चाकृतिमात्रवाचकत्वेनाविरोधः । सर्वत्र लक्षणाप्रसङ्गात् । यः सिक्तरेताः स्यादित्यादिषु विरोधश्च । भाष्यप्रकाशः । वेदानित्यत्वम् । भूतभावित्वव्यवहारकालेऽपि तद्धर्मवत्त्वेन तस्य सत्त्वात् । अन्यथा भूतत्व- भावित्वयोर्निराश्रयत्वप्रसङ्गेन तयोर्धर्मत्वस्य व्यवहारस्य चोच्छेदप्रसङ्गात् । अतो न विरोधः शब्द इत्यर्थः । अत्र प्रत्यक्षविरोधमाशङ्कते कथमित्यादि । युक्तिं व्याकुर्वते प्रत्यक्षम- त्यादि । वेदादेवावगच्छन्तीति । सिद्धमेव कुल्यं वेदादेव वृद्धव्यवहारादिनावगच्छन्ति । तथा च यथा कर्म तदेकगम्यं तथा पदार्था अपीत्यर्थः । ननु