भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 806, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 806

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७१३ न च प्रवृत्तिनिमित्तस्यैव वाच्यत्वम् । प्रवृत्तिवैयर्थ्यापत्तेः । संकेतग्रहविरो- धाच्च । सर्वस्यापि पदार्थस्य भगवत्त्वस्यानुपस्थितियोधः । संकेतग्रहेऽपि । भाष्यप्रकाशः। तु पदप्रवृत्तिनिमित्ते । स कोऽप्यस्तु । तस्य नित्यत्वान्न कोऽपि दोष इत्यत आहुः न च प्रवृत्तीत्यादि । प्रवृत्तिनिमित्तस्य धर्मस्य सर्वत्र नित्यत्वैवेति नियमाभावान्नित्यसंबन्धाभावे च तेन व्यक्त्यनाक्षेपात् तां विना कार्यासंभवे पदप्रवृत्तिवैयर्थ्यापत्तेरित्यर्थः । अथ तादृशस्या- प्यर्थबलादाक्षेपकत्वमाक्षेपश्चोपनय इति विभाव्यते तदा दूषणान्तरमाहुः संकेतेत्यादि । तादृ- शस्थले हि संकेतग्रहो व्यवहारादिना वाच्यः । तत्र व्यवहारादिस्तु व्यक्तावेव पर्यवस्य- त्यनुपस्थिते प्रवृत्तिनिमित्ते संकेतं ग्राहयिष्यति । यदि च नागृहीतविशेषणन्यायेनोपस्थिति- रङ्गीक्रियते तदापि समानसंवित्संवेद्यत्वापातेन विशिष्ट एव शक्तेः पर्यवसानमनित्यत्वानुद्धार इति तद्विरोधादित्यर्थः । ननु मास्त्वेकदेशिमतं तथापि वैदिकसृष्टेरतिरिक्तत्वाङ्गीकारे तस्या अगोचरत्वेनानुपस्थितत्वात् तत्र संकेतग्रहो दुर्लभ इत्यत आहुः सर्वस्येत्यादि । तथाच पूर्वेषां ब्रह्मादीनां भगवद्दर्शनेनोपस्थितेः सुकरत्वाददोषः । ततोऽर्वाचीनानामिदानीन्तनपर्यन्तानां तु रश्मिः । वाच्यम् गोत्वव्यक्तिप्रसिद्धीप्रसंगात् भवति तु गौरितीत्यादिनैयायिकोक्तदूषणानि ज्ञेयानि । स क इति स पदार्थः । प्रवृत्तीति यथा घटपदप्रवृत्तिनिमित्तं घटत्वम् । इति नियमेति जातिमात्रे नित्यत्वा- नियमोस्तु न तु सिकतेरतस्त्वादिषु सामान्यत्वादिषु च । उपनयः इति तर्कः एकवित्तिवेद्यत्वं वा । संकेतेति अस्मात् पदादयमर्थो बोद्धव्य इतीश्वरेच्छानुरूपः संकेतः शक्तिः, अभिधा च तस्य ग्रहो व्यवहारादिभिः । 'शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः' ॥ व्यक्ताविति घटोयमित्यादिषु अन्येषां जातावभावात् । यदि चेति दण्डीत्यादौ न गृहीत- दण्डरूपं विशेषणं यथा सा बुद्धिर्न विशिष्टं घटदण्डिरूपमुपसंक्रामतीति यथाह विश्वनाथः सिद्धान्त- मुक्तावल्यां विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादिति । एवं विशेषणीभूतजात्याद्यग्रहे विशिष्टाग्रहः संदर्शितः । अनित्यतेति व्यक्तीनामनित्यत्वेनानित्यतानुद्धारः तस्य संकेतग्रहस्य विरोधात् । अगविति । वृद्धव्यवहाराद्यगोचरत्वेन प्रयोज्यप्रयोजकवृद्धागोचरत्वेन वा । भगवदिति भगवद्दर्शनेन प्रतिपाद्यप्रतिपादकत्वरूपसंबन्धग्रहस्ततो भगवान् भगवत्पदवाच्योऽस्त्रीत्यत्र भगवत्पद- वाच्यभिन्नो भगवन्निष्ठा सचेति शाब्दबोधः । उपमितौ तु भगवत्पदवाच्योयमिति प्रतीतिः । मादृशास्तु यासौ पूर्वमस्माभिरदृष्टा गौः सा नेतरावयवेन सदृशीप्रतीतिमाहुश्चोपमितेः । अतो भगवान् भगवत्पदवाच्य इति शाब्दबोधः । दृष्ट एव श्रेष्ठ इत्युपपत्तिरिति मान्यात्स्नेहे जाते तत्साम्याभ्याम् । 'वेदाक्षराणि यावन्ति कथितानि द्विजातिभिः । तावन्ति हरिनामानि कीर्तितानि न संशयः' ॥ इति वाक्यविसंवाद्याः 'तमुस्तोतारः पूर्व्यं यथाविद ऋतस्य गर्भं जनुषापिपर्तन आस्य जानन्तो नामचिद्विविक्तन् महस्ते विष्णोः सुमतिं भजामहे' इति श्रुत्या ऋषितेन भगवदिच्छया हर्षावेशेन भगवच्छास्त्रेषु प्रसिद्धाः भगवतः । 713