अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 811, कुल 2600 में से
संदर्भ में पढ़ें७१८ श्रीब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ८ सू० २९
अत एव च नित्यत्वम् ॥ २९ ॥ साधिकां विशेषोपपत्तिमाह । अत एव अस्मादेव हेतोर्वेदस्य नित्यत्वम् । सर्वप्रपञ्चवैलक्षण्येन । चकाराद् ब्रह्मतुल्यत्वम् । शब्दब्रह्म वेदपुरुष इत्यादिवा- क्यत्वम् । अस्यास्तु सृष्टेर्ब्रह्मोपादानस्य सर्वज्ञतया कथनं तन्माहात्म्यनिरूपणा- र्थम् । बन्धिका ह्येषा । मोचिका तु सा । अत एव ऋषीणामप्यत्र मोहः । निःश्व-
भाष्यप्रकाशः । स्मृतिं 'सर्वेषां स तु नामानि रूपाणि च पृथक् पृथक्' इत्यादिसमृतिरूपमनुमानं चोपन्यस्य शब्दनिमित्तिकां व्यक्त्युत्पत्तिमङ्गीकृत्य सूत्रं व्याचक्षते । तथा सति, समाननामरूपव्यक्त्यवस्थाना- वश्यकता स्यादित्यवधेयम् ॥ २८ ॥ अत एव च नित्यत्वम् ॥ २९ ॥ सूत्रमवतारयन्ति साधिकामित्यादि । व्याकुर्वन्ति अत एवेत्यादि । अस्मादित्यस्य विवरणं, सर्वप्रपञ्चवैलक्षण्येनेति । ननु यदि वैदिकसृष्टिरेव तदा श्रुतौ, यतो वा इमानीत्यादिषु ब्रह्मण एवत्सृष्ट्युपादानत्वकथनं निष्प्र- योजनकं स्यादित्यत आहुः अस्या इत्यादि । ब्रह्मोपादानस्येति ब्रह्मरूपस्योपादानस्य । तन्माहात्म्यनिरूपणार्थमिति । तस्या वैदिक्याः सृष्टेः प्रकटसच्चिदानन्दरूपत्वब्रह्मधर्मसंपन्न- त्वादिरूपमाहात्म्यनिरूपणार्थम् । उभयोर्वैलक्षण्यं स्फुटीकुर्वन्ति बन्धिकेत्यादि स्मृत्यन्तरविरोध-
रश्मिः । पदेन च देवमनुष्यान् स्मृत्वा प्रजापतिरसृजेति आदिशब्देन इन्दव इति पितॄन् तिरः पवित्रमिति ग्रहानाश्रव इति स्तोत्रं विश्वानीति शस्त्रं अभिसौम्येत्यन्याः प्रजाः इति श्रुतिः । इमानि बीजानि पदानि । इत्यादीति । उत्तरार्धं तु 'वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे' इति । स इति महेश्वरः । व्यक्तीति अर्थेन नित्यसंबन्धाय देवादिव्यक्त्युत्पत्तिम् । अत्रेति यत्तु स्फोटोऽपि स तु भागवतीयद्वादशस्कन्धस्य । 'शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः' ॥ इति वाक्यविरुद्धम् ॥ २८ ॥ अत एव च नित्यत्वम् ॥ २९ ॥ साधिकामिति नित्यत्वसाधिकां विशेषशामिकां उत्कृष्टां वा उपपत्तिं ब्रह्मतुल्यत्वरूपामाहेति भाष्यस्यार्थः । प्रकृते । व्याकुर्वन्तीति यत्तु शंक- राचार्यादयः पूर्वसूत्रकथितं वेदर्नित्यत्वमेतद् द्रढयतीत्याहुः तन्न पुनरुक्त्यापातादित्याशयेन प्रका- रान्तरेण व्याकुर्वन्तीत्यर्थः। विवरणमिति विभक्तिहेत्वर्थसाम्यादिति भावः । यद्वा करणमेव अस्मा- दतः प्रभावादेव सर्वप्रपञ्चे यथाऽऽविर्भावतिरोभावदर्शनेपि ब्रह्मत्वेन नित्यत्वं तद्वैलक्षण्यमाविर्भावादिर- हितं तेन रूपेण वेदस्य नित्यत्वं शब्दब्रह्मत्वेनाक्षरत्वा च ब्रह्मवन्नित्यत्वम् । इदमुक्तं भवति यथा जगज्जन्मादिकर्तृत्वं ब्रह्मलक्षणं तद्वत् आधिदैविकप्रपञ्चकर्तृत्वं शब्दब्रह्मलक्षणम् । इत्यादीष्विति । सूक्तानि जायन्ते छन्दांसि जज्ञिरे तस्मादित्यादिषु यत इति जन्माधिकरणविषयवाक्यम् । प्रकृतेति चारिणा शब्दब्रह्मादिपदवाच्यत्वम् । स्मृत्यन्तरेति जन्माद्यस्येति स्मृत्यविरोधो मोचकत्वमोहक- त्वयोः सहानवस्थानलक्षणत्वात् । 'वेदो नारायणः साक्षात् स्वयंभूरिति शुश्रुम' इति स्मृतेः अन्यजन्मा- द्यस्य यतः इति वाक्यं स्मृत्यन्तरं तेन विरोधम् । यद्वा— 718