भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 835, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 835

[Header] ७५२ श्रीमद्वल्लभाचार्यभाष्यम् । [ अ० १ पा० ३ अ० ९ सू० ३४

अस्य धिक्कारवचनमनर्थकं स्यात् । युक्तञ्चायमर्थो ब्रह्मविदः सर्वज्ञतेति । तस्य मात्सर्यनिराकरणं वा संबोधनफलम् । तस्माच्छुचं प्रत्याद्रवणादेव शूद्रपदप्रयोगो न जातिशूद्रवाची ॥ ३४ ॥

भाष्यप्रकाशः। चेत्यादि । ननु स्वस्य सर्वज्ञत्वख्यापनार्थं प्रपञ्चधिक्कारवचनमपि ब्रह्मविदोऽनुचितमित्यरुच्या पक्षान्तरमाहुः तस्य मात्सर्यैत्यादि । एवञ्चेके मत्सरस्यातिदोषत्वं ज्ञात्वा तं स त्यजेत् तदुपाख्यानं श्रुत्वान्योऽपि त्यजेदित्येतदर्थं तथा वचनमतो नानुचितमित्यर्थः । तस्मादिति । गमकेन योगेपोद्बलने रूढेरकिञ्चित्करत्वात् ॥ ३४ ॥

रश्मिः । इत्यादिना संवर्गविद्यामुपदिष्टवानित्यर्थः । संवृङ्क्ते सर्वान् ग्रसतीति संवर्गो वायुः प्राणश्च । प्रकृते