भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 838, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 838

कापेया अयाजयन्निति । शौनकश्च कापेयो याजकः । याज्यश्च चित्ररथस्य पुत्रः काक्षसेनिरिति । ब्रह्मचारी ब्रह्मवित् । इमौ तु संवर्गविद्योपासकौ । प्राणाय हि भाष्यप्रकाशः । बन्धात् काक्षसेनिचैत्ररथ इति तथेत्यर्थः । परिविष्यमाणौ ब्रह्मचारी बिभिक्ष इत्यादेस्तात्पर्यमाह । ब्रह्मचारीत्यादि । इमौ शौनकाभिप्रतारिणौ संवर्गविद्योपासकौ । संवर्गस्त्वधिदेवतं वायुरध्यात्मं रश्मिः । 'शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः' ॥ इत्युक्तेषु व्याकरणादिषु सिद्धपदस्य कापेयस्य शौनकत्वेन श्रीभागवते प्रसिद्धपदस्य सांनिध्यात् । तथेति जानश्रुतेः काक्षसेनिरूपचैत्ररथस्य क्षत्रियत्वेन प्रकारेणावगतिरित्यर्थः । काक्षसेनिचैत्ररथः इति कोषव्याकरणाभ्यां कक्षा सेनेत्यादि भाष्ये सिद्धति । वि