भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 840, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 840

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७४७ भिक्षा । तस्मात्न ददतुः । उभावपि श्लोकौ भगवतः । तेन प्रकृतेऽप्येतौ गुरुशिष्यौ ब्राह्मणक्षत्रियावेवेति गम्यते । तस्मान्न जातिशूद्रः संवर्गविद्यायामधिकारी ॥ ३५ ॥ संस्कारपरामर्शात् तदभावाभिलापाच्च ॥ ३६ ॥ इदानीं शूद्रस्य क्वचिदपि ब्रह्मविद्यायामधिकारलेशोऽपि कल्प्येत । तन्नु नास्ति । सर्वत्र संस्कारपरामर्शात् । उपनयनसंस्कारः सर्वत्र परामृश्यते । तं होप- निन्ये अधीहि भगव इति होपससाद । तान् हानुपनीयैत्यादि प्रदेशेषूपनयन- पूर्वकमेव विद्यादानं प्रतीयते शूद्रस्य तु, तदभावाभिलापात् । चतुर्थ एकजातिस्तु शूद्र इति, न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हतीति शूद्रस्य संस्कारनिषेधात् । चकारान्न शूद्राय मतिं दद्यादिति निषेधः ॥ ३६ ॥ भाष्यप्रकाशः । ब्रह्मविद्या, न तु साक्षात् । तेन सिद्धमाहुः । तेनेत्यादि । उत्तरस्मिन् वाक्यशेषे । संवर्गविद्यो- पासकयोर्ब्राह्मणक्षत्रिययोरेवोक्तत्वेन प्रकृते तथेत्यर्थः । फलितमाहुः तस्मादित्यादि । तथाच परंपराविद्यायामपि यत्र नाधिकारस्तत्र साक्षाद्विद्यायां किं वाच्यमिति भावः ॥ ३५ ॥ संस्कारपरामर्शात् तदभावाभिलापाच्च ॥ ३६॥ ननु, 'श्रुतिलिङ्गवाक्यप्रकरणस्थानस- माख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्' इति जैमिनिना श्रुत्यपेक्षया लिङ्गादीनां दौर्बल्यस्य साधितत्वात् तत्रापि क्लिष्टानां तेषां सुतरां तथात्वाच्छ्रुतैवाधिकारः शूद्रस्यादर्तव्यम् इत्याशङ्कायां सूत्रं पठित्वार्थमाहुः इदानीमित्यादि । बुद्धिस्थायां शङ्कायाम्, अधीहि भगव इति होपस- सादेति सनत्कुमारनारदसंवादस्थं प्रतीकम् । तत्र च, यद्वेत्थ तेन मोपसीदेत्यामन्त्रणे, ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमिति वेदाध्ययनलिङ्गादेवोपनयनसंस्कारप्राप्तिः । तान् हानुपनी- यैवेति वैश्वानरविद्यायामपि प्राचीनशालादीनां षण्णां महाश्रोत्रियत्वलिङ्गादेव तत्प्राप्तिः । निषेधस्तु रश्मिः । च न चतुर्थोक्ते । तदा न परंपरिता । तदा महात्मनश्चतुरोऽशनं पश्यन्ति । स्वगतद्वैतापत्तिमाशङ्क्याह देव एक इति 'एकमेवाद्वितीयं ब्रह्म' इति श्रुतेः । अग्रे स्पष्टम् । द्वितीये यदनद्ब्रह्मेति भगवल्लिङ्गं 'अनञ्ब्रह्मन्व्योमिचाकशीति श्रुतेः । महान्तं महत्तत्त्वम् । ननु संवर्गविद्यायामुक्तहेतोरनिरूपणस्य को हेतुरिति चेच्छृणु ब्रह्मचारिणो वाक्यत्वात्तस्य च ब्रह्मज्ञत्वात् ॥ ३५ ॥ संस्कारपरामर्शात् तदभावाभिलापाच्च ॥ ३६ ॥ तेषामिति शुगस्य तदाद्रवणात् सूच्यते हीति वाक्यम् । उत्तरो वाक्यशेषः । तत्र ब्राह्मणक्षत्रियलिङ्गं च । एतेषामुपपादितानाम् । श्रुत्येति अह हारेत्वा शूद्र इति श्रुत्या । इदानीमिति अस्मिन् काले दानीं च । अस्माकमित्यर्थस्तदर्थ उक्तः । यद्वेत्थेति नारदं प्रति सनत्कुमारवाक्यम् । उपसीदेति लोट् आमन्त्रणे तच्च कामचारानुज्ञा अध्येमि स्मराम्यहमिति नारदोक्तिः । उपनयनेति 'अष्टवर्षं ब्राह्मणमुपनयीत' इत्यादि श्रुतेः । वैश्वानरेति छान्दोग्ये पञ्चमप्रपाठकेऽस्ति । तानिति प्राचीनशालादीन् । ननु अनुपनीयैति सम्ब- न्धवदनमिति कथं तस्यासिद्धिरिति चेत्तत्राहुः निषेध इति । विशेषेण गृह्यते ये प्राचीनशालादयस्ते वैशेषिकाः वैशेषिकोऽयम् वैशेषिकस्येति सामान्ये नपुंसकमेकवचनं यद्वा टीकायामुक्तमुप समीपेऽनीय पावचो 747