अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 846, कुल 2600 में से
संदर्भ में पढ़ेंअथ प्रसङ्गादिदं विचार्यते । शूद्रादयः सर्वं भारतं पुराणं च पठेयुर्न वेति । तत्र, 'भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः । दृश्यते यत्र वै धर्मः स्त्रीशूद्रादिभिरप्युत' ॥ इति प्रथमस्कन्धे, 'विप्रोऽधीत्यामुयात् प्रज्ञां राजन्योदधिमेखलाम् । वैश्यो निधिपतित्वं च शूद्रः शुद्ध्येत पातकात्' ॥ इति द्वादशस्कन्धे च धर्मदर्शनश्रीभागवताध्ययनयोर्बोधनात् । 'तस्माद् भारत सर्वात्मा' इत्यामन्त्रणेच्छायां सर्वसाधारण्येन कीर्तनविधानाच्च सर्वमेव भारतं पुराणं च सर्वे पठेयुरित्येवं प्राप्ते । अभिधीयते । ब्रह्मज्ञानमार्गाङ्गव्यतिरिक्तमेव पठनीयम् । धर्मब्रह्मणोरतीन्द्रियत्वेन प्रथम- वाक्ये दृश्येत्यस्यार्थस्य ग्रहीतुमशक्यतया धर्मादिशब्दज्ञानमात्रार्थकत्वेन पाठाप्रापकत्वात् । द्वितीयेऽप्यधीत्येत्यस्य स्मरणाध्ययनसाधारण्यात् स्मृत्वा गुरुमुखाद्वा गृहीत्वेत्यर्थेन तथात्वात् । नच स्वाध्यायमब्राह्मणश्रुतौ, प्राङ्कासीनः स्वाध्यायमधीयीतेत्यादौ केवलोच्चारणेऽपि तथा प्रयोगात् तत्रातिरिति वाच्यम् । विनिगमनाविरहात् । न चेतः पूर्वं, य एतां श्रावयेदिति सर्वां संहितां पठन्नश्नन् प्रयत् इति पाठं च प्रक्रम्य, विप्रोऽधीत्येति श्लोककथनादुपक्रम एव विनिगमकोऽ- स्त्विति वाच्यम् । तत्रापि श्रावणाद्युत्तरमेतत्कथनेनाध्ययनशब्दमहिम्ना च श्रावणौचित्ये सिद्धे, 'वेदार्थोक्तानुसारेण मन्वाद्याः स्मारकाः स्मृताः । तेषां वै स्मृतयो नाना धर्मनिर्णायका भुवि' ॥ इत्याद्युक्तातिरिक्तानां नानानाम्नां नानानामकधर्मनिर्णायकत्वात् । भेषजत्वे श्रुतिः यथन्मनुर्वै यत्किंचिदवदत्तद्भेषजं भेषजताया इति छान्दोग्यब्राह्मण इति टीकाकृत् । माधवटीकायां पराशरस्मृतेः यत्किंच मनुरवदत्तद्भेषजमिति श्रुतिर्मानवी ऋचौ धाय्ये कुर्यादिति विधाय तद्विधिस्तावकत्वेन यद्वै किंच मनुरवददित्यस्याः पाठात्स्वार्थे तात्पर्याभावात् इति गणितम् । तस्य विधेरयमर्थः । इष्टिविकृतरूपे सोमारौद्रे चरौ अतिदेशतः प्राप्तासु सामिधेनीषु मध्ये प्रक्षेप्यौ धाय्यासंज्ञकौ द्वौ यौ मन्त्रौ तौ मानव्यौ कर्तव्यौविति । ननु तत्र मनुपदस्य स्मृतिकर्तृमनुवाचकत्वेऽनित्यसंयोगात्पतित आधिदैविकमनु- वाचकत्वमतः स्मृतौ मनुपदेन प्रत्यभिज्ञाभावात् मनुस्मृतेः कुतो भेषजत्वमिति चेन्न । श्रुतीर्दृष्ट्वा मनु- स्मृतिं चकारेत्यनुवादरूपत्वेन यथाकथंचित् प्रत्यभिज्ञासत्त्वात् । प्रकृतमनुसर्यतेऽस्माभिः । अथेति पुराणविषये निरूपिते स्मृतस्य भारतविषयस्योपेक्षानर्हत्वात् । धर्मेति धर्मदर्शनं प्रथमवाक्ये भारतरूपे । अभीति महतामधिकार इति भाष्ये विस्तरोऽभिधीयते । धर्मेति भावार्थपादभाष्ये धर्मातीन्द्रियता । ब्रह्मवस्तु विशेषणानास्कन्दितेन्द्रियातिक्रान्तता । धर्मस्यापि 'धर्मो यस्यां मदात्मकः' इति वाक्यात् । ननु पाठाभावे कथं शाब्दं ज्ञानं पदजन्यपदार्थोपस्थितेरभावादित्यतः । द्वितीयेप्येतत्सोपपादकमाहुः द्वितीय इति । पाठो ह्युच्चारणं तस्य श्रवणस्मरणयोर्निर्वाहकत्वं मुक्तिभक्तिजनकत्वं चेति शाब्दज्ञान- मात्रार्थत्वं नास्ति तर्हि पाठव्यतिरेकेन केनापि शाब्दज्ञानकारणेन भाव्यमित्यत आहुः स्मृत्वेति । सेवा च स्मरणाध्ययनाभ्यां शाब्दज्ञानमिति भावः । न च स्मरणनिर्वाहकपाठप्रसिरिति शङ्क्यम् । तस्य स्मरणमार्गं तस्योदाहरणत्वात् । तथा प्रेति । अधीयीत इत्यध्ययनप्रकारकरूपप्रयोगात्पाठासिः । विनिगमनेति । अधीयीत इत्यस्य स्मरेदित्यर्थस्यापि संभवात् । श्रावणादिति 'य एवं श्रावयेन्नित्यं