अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 848, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः। 'स्वाहाकारनमस्कारौ मन्त्रौ शूद्रे विधीयते । ताभ्यां शूद्रः पाकयज्ञैर्यजेत भगवान् स्वयम्' ॥ इत्याद्यनुशासनिकपर्वा दौ तदनुज्ञादर्शनेनैतेषां च तदभावेनैतद्दृष्टान्तस्यात्र वक्तुमशक्य- त्वात् । किंच द्वितीयस्कन्धे श्रीशुकैः 'श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्च' इति श्रवणात् तृतीयं स्मरणमुक्तम् । प्रथमे सूतेनापि, 'श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च' इति तथोक्तम् । एवं प्रकृतेऽपि श्रवणपठनफलकथनोत्तरं स्मरणस्यापि तद् वाच्यम् । अन्यथाऽऽकाङ्क्षान्तरोदयप्रसङ्गात् । अतः सादेश्यादप्यधीत्येति पदं स्मरणार्थकमवसीयते । यत्तु 'ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः । वैश्यः पठन् विट्पतिः स्याच्छूद्रः सत्तमतामियात्' ॥ इति चतुर्थस्कन्धीयम् । तत्तु पृथुचरितमुपक्रम्य पठितत्वात् प्रकरणावरुद्धमिति न तेन सर्वपाठः प्रापयितुं शक्यते । नच 'पठेच्च नियमं कृत्वा श्रीमद्भागवतमादरात्' इति निबन्धे श्रीम- दाचार्यैरुक्तत्वात् सर्वं पठनीयमिति शङ्क्यम् । तत्रापि तदंशत्यागे बाधकाभावात् । अन्यथा 'यौपनिषदं ज्ञानं श्रीमद्भागवतमेव वा । वर्णिनामेव तद्धि स्यात् स्त्रीशूद्राणां ततोऽन्यथा' ॥ इति तृतीयस्कन्धीयनिबन्धवाक्यस्य, 'भागवतज्ञानमपि त्रैवर्णिकानामेव । उपासनायाः प्राधान्यात् । यदेव भगवता ब्रह्मणे प्रोच्यते, तत् त्रैवर्णिकानामेवेति ज्ञातव्यम्' इति तत्प्रकाशा- ग्रन्थस्य च विरोधापत्तेः । नचैकादशस्कन्धेऽपि, 'एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य संग्रहः' इति रश्मिः। फलात् । न च पौराणब्रह्मज्ञानादेः स्त्रीशूद्रेण पुराणादिवत्प्राप्तिः बाधकाभावादिति शङ्क्यम् । भावबोधेऽङ्गत्वेन स्त्रीत्वात् । तदुक्तं सर्वनिर्णये—न च ब्रह्मज्ञानमन्तरेण पुराणपठनं व्यर्थमिति वाच्यम् । व्यर्थत्वे भगवतो गुह्यजन्मनामावस्य हेतुत्वात् । 'यस्मिन् मे पावनमङ्ग कर्म' इत्युपक्रम्य 'धन्यां गिरं तां विसृजाञ्ज धीरः' इति वाक्यात् । अधीत्येत्यत्र नेङ् अध्ययने भ. आ. अनिटो रूपम् । किं तु इङ् स्मरणे अ. प. अनिटः तस्माच्च पाठप्रापकत्वमित्याहुः किं चेति । तथोक्तमिति ध्यै चिन्तायां भ्वा. प. अ. चिती स्मृत्यां चु. प. से. 'अचो यत्' । श्रवणकीर्तनस्मरणप्रकारेणोक्तम् । श्रवणपठनेति । फलबोधके वाक्ये उक्ते तदिति फलम् । आकाङ्क्षेति सादेश्यात्स्मरणाकाङ्क्षा ततोऽन्या फलबोधाकाङ्क्षाऽऽकाङ्क्षान्तरं तस्योदयप्रसङ्गात् । सादेश्यादिति स्मरणसमानस्तृतीयो देशः तस्य भावात् । सादेश्यं यथासंख्यरूपम् । तेन यथासंख्यपाठरूपदेशसामान्येन श्रवणदेशे श्रवणं कीर्तनदेशे कीर्तनं स्मरणदेशे अधीत्येति स्मरणम् । न तु पाठः । यथा समिधो यजतीत्यादिः । समिधः समिधो अग्न आज्यस्य व्यन्त्वित्यादि च । समिधः समिधो अग्न इत्यादिपञ्चमन्त्राणां यथासंख्यपाठरूपदेशसामान्येन प्रथमप्रयाजस्य समिधो यजतीत्युक्तस्य प्रथमो मन्त्रोऽङ्गे द्वितीये द्वितीयः इत्येवमङ्गत्वं बोधयति इति तथा । सर्वपाठ इति पृथुचरितव्यतिरिक्तसर्वपाठः । उपासनेति भागवत- ज्ञानमित्युक्ते मनोव्यापारविशेषः प्रतीयते 'कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्धीर्भीरित्ये- तत्तत्सर्वं मन एव' इत्यत्र मनोवृत्तित्वात् । उपासनायाश्च मनोव्यापारविशेषरूपाया ग्रहणं न तु