अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 88, कुल 2600 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ प्रथमोऽध्यायः । प्रथमः पादः भाष्यप्रकाशः। ॥ श्रीकृष्णाय नमः ॥ संगीतं श्रुतिमूर्धभिस्तदविदां वागाद्यतीतं विदां रश्मिः । श्रीकृष्णाय नमः । साकारब्रह्मवादस्थापकेभ्यः श्रीमदाचार्येभ्यो नमः । उद्धर्तुं ज्ञानरहितान् मादृशान्पराधीनः । कृतश्रम इवाभासि यतस्त्वं विठ्ठलेश्वरः ॥ १ ॥ जयति जगति वाणी वेदवेदान्तयुक्ता विविधमहिमशुद्धाद्वैतविद्याकृतेऽलम् । प्रभवति खलु वादे मायिनीतीह यस्य जयति विजितमायः श्रीमदाचार्यवर्यः ॥ २ ॥ पितृचरणोदितसरणी साकारब्रह्मस्थापिकायां तु । आदिमूर्तिभजनेषु प्रतिनिधीन् विठ्ठलान् नमामि ॥ ३ ॥ गुणत्रयातीतगुणाम्बुगेहे कृष्णाश्रयाद्याः सुरवर्यवृक्षाः । तदन्तरा मूलसुखार्थसारं शाखाद्विषद शब्देसहस्रपर्णम् ॥ ४ ॥ मुक्तालिवृन्दैरभितः स्तुतं च जुष्टं रसाकाङ्क्षिशुकादिभक्तैः । दिव्यं पुराणं च सहस्रनामकल्पद्रुमं नौमि रसार्थकामी ॥ ५ ॥ श्रीवल्लभाचार्यपदान्बुजयुग्मसंशोधिताशेषविशेषबुद्धिः । वेदान्तिहृत्पद्मविकासनेऽलं भाष्यप्रकाशे वितनोमि रश्मिम् ॥ ६ ॥ विविधदुरितपाशं व्याहतीकृत्य नस्त्वं प्रवि