भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 889, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 889

ह्याङ्गीकरणे । लभ्यते तु पञ्चीकरणस्थाने त्रिवृत्करणवत् पूर्वत्र ते संदिग्ध्धे । अकामहतत्वकृत आनन्दोत्कर्षो वैराग्यस्य भगवत्त्वात् । 'जनयत्याशु वैराग्यम्' इत्यस्य सुबोधिन्यां भगवत्त्वं वैराग्यस्य । 'अथर्वा शुश्रुवो वेदश्चतुष्के त्रिषु सामवत्' इति वाक्याद्यथाऽजानदैवत्य इत्यत्र वैकृतोत्कर्षोऽपि । ततश्च पूर्वो- त्तरभावः कर्मदेवानामाजानदेवानां च । मनुष्याणां परमानन्दानन्तरमाजानदेवानामानन्दानां कथनं भजने विद्याकामना तया गिरिशस्य यष्टव्यत्वात् । 'विद्याकामस्तु गिरिशम्' इति वाक्यात् । गिरिशे यष्टे विद्यावाप्ताकामत्वे संपन्ने यद्वा शमदमाद्युपेत इति सूत्रभाष्योक्ते स्वतोऽकामत्वे वा संपन्ने 'अकामः पुरुषं परम्' इति वाक्यात् । सेवायां स्वर्गसात्म्यसुखस्य कामना तथाऽदितेः सुतान्तर्गताजानदेवानां यष्टव्यत्वान्मनुष्याणां परमानन्दानन्तरमाजानदेवानन्दकथनं 'स्वर्गकामोऽदितेः सुतान्' इति वाक्यात् । देवत्वाददितेः सुतत्वमाजानानाम् । यच्चेति सुपां सुः येषां याजकानां आजानदेवानां तेऽमुं लोकमजयन्निति श्रुतेः । च आह्लादेन श्रोत्रियाणां छन्दोऽध्येतृणां अपापानामित्यवृजिनपदार्थः । वृजि वर्जने भ. आ. से. वृज्यते वृजेः क्विबेतीति नञ् न विद्यते वृजिनं वर्जनं येषां ते अवृजिनास्तेषामिति वा । अकामहतः अकामहतानामानन्दाः । यद्वा च सुलुक् आह्लादः श्रोत्रियैः मिश्रः सुः छन्दोध्येतृभिरवृजिनैः अकामहतैः नात्र पक्षे आनन्दानुत्कर्षः । तदुक्तं 'महानुभावाः प्रायेण शास्त्रं शुद्धत्वद्धेतवे' इति । अथेति देवलोकः स्वर्गलोकः । तत्र स वा यथेति पूर्ववत् । येषां याजकानां देवानाम् । अकामहतत्वोत्कर्षकृत आनन्दोत्कर्षो देवलोकस्य फलत्वात्तत्कृत आनन्दोत्कर्षश्च ततश्च पूर्वोत्तरभाव आजानदेवानां देवलोकानन्दानां च । मनुष्याणां परमानन्दानन्तरं देवलोकानन्दकथनं भजने भूमौ भगवद्भजनं कृत्वा दिव्यानां पदार्थानामभावात् स्वर्गे कर्तव्यमिति स्वर्गकामना भवति तत्रादित्याः प्रत्यक्षाः तेऽमुं लोकमजयन्निति श्रुतेः अतः कारणादादित्यानां यष्टव्यत्वात् । 'स्वर्गकामोऽदितेः सुतान्' इति वाक्यात् । अत्र स्वर्गो लोकः । अथेति गन्धर्वेति गन्ध अर्दने चु. आ. से. अर्दनंगतियाचनयोः म्वा. प. से. अर्व गतौ गन्धाय गत्वा याचनाय गच्छन्ति तैत्तिरीयानन्दमीमांसायां मनुष्यगन्धर्वपदात् मनुष्यत्वानवबोधकर्तृन् गत्वा उभ्भावबोधा अन्यत्र तुरीयाश्रमे याचनाय भिक्षार्थं गच्छन्तीत्यर्थः । 'भिक्षुचर्यां चरन्ति' इति श्रुतेः । गन्धर्वपदं शुकन्त्वादि तेषां लोको मासकस्तत्र । यथेति पूर्ववत् । येषां याजकानां गन्धर्वाणामकामहतत्वोत्कर्षकृतः आनन्दोत्कर्षः । तुरीयाश्रमकृत उत्कर्षश्चानन्दानां ततश्च पूर्वोत्तरभावो देवलोकानन्दानां गन्धर्वलोकानां च । मनुष्याणां परमानन्दानन्तरं गन्धर्वलोकानन्दकथनम् । केषाञ्चित् स्वर्गे धर्मकामना तयोत्तमश्लोकस्य यष्टव्यत्वात् । 'धर्मार्थमुत्तमश्लोकम्' इति वाक्यात् सेवायां रूपकामना तया गन्धर्वाणां यष्टव्यत्वम् । 'रूपकामो गन्धर्वान्' इति वाक्यात् । गन्धर्वा राक्षसास्ते देवताः 'एते वै गन्धर्वाप्सरसो यज्ञाङ्गभूतः' इति श्रुतेः । अथेति प्रजापतिः विष्णुः वेदान्ते ज्ञेयत्वान्नात् । तस्य लोकस्तस्यानन्दः । भा. गन्तुः भासुः सच्चिदानन्दः । यथेति । विष्णुयाजकानां यच्छब्दार्थः आह्लादेन आह्लादो वेति पूर्ववत् । अत्राप्यकामहतत्वोत्कर्षकृत आह्लादोत्कर्षः । विष्णुकृत आह्लादोत्कर्षः । सेवायां यशसो भक्तिकारणस्य कामना कीर्त्या हि सर्वे समायन्ति पश्चात् ह्युज्जयिह्रियन्ते 'यज्ञो वै विष्णुः' यशः प्राप्तवान् 'देवा वै सत्रमासत' ऋद्धिरपरिमितयशस्कामा इत्यत्र ह्यज्ञेनैव यशसः प्राप्तत्वात् स सेव्योऽतो मनुष्याणां परमानन्दकथनोत्तरं प्रजापत्यानन्दकथनम् । पूर्वोत्तरभावः आनन्दयोः स्पष्टः । एतावत्पर्यन्तं कर्ममार्गः तत्प्रधानो भक्तिव्यापारी सर्वोत्तममार्गबोधकः । ज्ञानभक्तिमार्गानुच्येते अथेति । ब्रह्मणो हिरण्यगर्भानुक्त्वात् ब्रह्मणो लोक इति ब्रह्मणो हिरण्यक-

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 889, कुल 2600 में से · BharatKosha