भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 898, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 898

An exact, line-by-line transcription into Unicode Devanagari matching the printed page:

भाष्यप्रकाशः । भवति, गमनार्थं विशेषज्ञानवान् भवति, । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा चेति । विद्या सदसद्विषयकं ज्ञानम् । कर्मादृष्टरूपं लिङ्गगतिरूपं च । यद्वा, विद्या उपासनात्मकं ज्ञानम् । कर्म यज्ञादिरूपम् । यथाक्रतुरस्मिन् लोक इत्यादिश्रुतेः पूर्वप्रज्ञा, संस्कारात्मना वर्तमानं ज्ञानम् । समन्वारभेते अनुगच्छतः । जलायुका जलौका । निहत्येत्यस्य व्याख्यानमविद्यां गमयित्वेति । रश्मिः । गन्तव्यम् । अन्ववक्रामति उद्धृच्छति इति तव मनीषितं तदसंगतम् । आक्रममाक्रामतीति श्रुतावाक्र- मस्य गन्तव्यस्य वक्ष्यमाणत्वात् । अतो हृदयस्याग्रे प्रद्योतितोऽणुमात्रहृदयजीवो निःसरतीत्युक्तम् । इदं निःसरणं संसारिणस्तस्य कर्मवैशिष्ट्यादित्याहुः तमिति । तं जीवम् । विद्यापदेन पञ्चपर्वविद्या [L1