अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 900, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८०७ भाष्यप्रकाशः । उपपादयति । स वा अयमात्मेत्यादिना । तथाच सर्वमयत्वेन नानावासनाशासित्वाद् या वासना रश्मिः । इति । मानुष्यं मनुष्यलोकभोगयोग्यम् । राजसानां 'मध्ये तिष्ठन्ति राजसाः' इति । अन्येभ्य इति षष्ठ्यर्थे चतुर्थी । अन्येषां भूतानां प्रेततिर्यगादीनां संबन्धि शरीरं कुरुते इति प्रत्येकं संबध्यते । उपपादयतीति श्रुतिः कर्त्री । श्रुतयः प्रतिपादयन्तीति वा । श्रुतिलिखापितम् । स वा अयमिति । अयमात्मा ब्रह्म विज्ञानमयो मनोमयो वाङ्मयः प्राणमयश्चक्षुर्मयः श्रोत्रमय आकाशमयो वायुम- यस्तेजोमय आपोमयः पृथिवीमयः क्रोधमयोऽक्रोधमयो हर्षमयो धर्ममयोऽधर्ममयः सर्वमयस्तद्यदे- दंमयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति श्रुतयः । अत्र ब्रह्मेत्यन्तेनासङ्गः । स्वरूपमुक्तम् । आध्यासिकं रूपमाहुः विज्ञानमय इत्यादिना । जीवस्याविकृतत्वात् । प्राचुर्ये मयद्विकारे । विज्ञानं बुद्धिस्तत्प्रचुरः मया जानन्तीति बुद्धेरध्यासः । अहं मन्य इति इति मनोऽध्यासः । मया वक्तव्यार्थो ज्ञात इति वागध्यासः । अहं देहं धारयामीति प्राणाध्यासः । पश्यामीति चक्षुषः । शृणोमीति श्रोत्रस्य एतावत्पर्यन्तं सहैव गतानां बुद्ध्यादीनामनुवादः मात्रापादानामतः परमाकाशमय इत्यादीनां पञ्चमहाभूतानामुच्यते यथाकर्तुं शीलमस्यास्तीति यथाकारी यथाचरितुं शीलमस्यास्तीति यथाचारी यथातथाशब्दौ व्याकरोति साध्वीति अग्रे स्पष्टम् । तदुक्तम् । शरीरं निहत्य पञ्चसु महाभूतेषु पृथग्था समपित्वा— 'त्र्यहं वसति तोयेषु त्र्यहं वसति चाग्निषु । त्र्यहमाकाशगो भूत्वा दिनमेकं तु वायुगः' ॥ तस्यैतस्य जीवस्य पिण्डदानेन संभवः । तथापि पिण्डोपनिषदि त्र्यहं वसतीति पूर्वोक्तमुक्त्वा पठ्यते— प्रथमेन तु पिण्डेन कालातान्तस्य संभवः । द्वितीयेन तु पिण्डेन मांसत्वक्शोणितोद्भवः ॥ तृतीयेन तु पिण्डेन मतिस्त्वस्याभिजायते । चतुर्थेन तु पिण्डेन अस्थि मज्जा प्रजायते ॥ पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरोमुखम् । षष्ठेन तु पिण्डेन हृत्कण्ठतालु जायते । सप्तमेन तु पिण्डेन दीर्घमायुः प्रजायते ॥ अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् । नवमेन तु पिण्डेन सर्वेन्द्रियसमाहितः ॥ दशमेन तु पिण्डेन भावानां प्लवनं तथा । पिण्डपिण्डे शरीरस्य पिण्डदानेन संभवः पिण्डदानेन संभवः ॥ इतीत्यत्र संघातातसंघातस्य शरीरस्य संघातदानेन द्विरुक्त्या मर्यादाप्रवाहयोः संभवः । पिडि संघाते भ्वादिः आ. से. । चरितुं शीलमस्येति चारी जास्मा तेषु । कलातः बुद्धितः । कुवनांगमः प्रसन्नस्त्वात् । वीर्यवान् ऋध्यति । पिण्डपिण्डे । पिण्डाद् पिण्डस्य उसः से । अचेति लक्तदेशान्तभावा- १०२ ब्र० सू० १० 807