अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 902, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८०९ भाष्यप्रकाशः। इति । अर्थस्तु, स जीवः, तत् सह । तृतीयाया लुक् । तेन ब्रह्मणा प्राणेन सह । तदेव एति इति प्राप्नोति । तत् किमित्यत आह । अस्य जीवस्य लिङ्गं लिङ्गशरीरे प्रधानभूतं मनः । कर्मणा पूर्वकृतेन कर्मणा यत्र यस्मिन्नर्थे निषक्तं नितरां सक्तमिति । शेषं स्फुटम् । तथा च पूर्वत्र भगवच्चरित्रं यदि प्रतिपाद्यं न स्यात् तदा श्लोके तत्सहेति न वदेत् । भगवदन्यारूढत्वोक्तिश्च पौर्वत्रिकी मुधा स्यादतस्तथेत्यर्थः । अतः पूर्वोक्तमर्यादाकामयमानस्य मोक्षोपायं गूढतया वदन् मुच्यमानावस्थां सुषुप्तिसमानत्वेन शिष्टतयाह । अथाकामयमान इत्यादि, सम्राडित्यन्तेन । तत्र मोक्षावस्थायाः प्रकरणेन प्रतीयमानत्वात् सुषुप्त्यवस्थां व्याकुर्वन्ति अकामयमानस्येत्यादि । अकामयमानस्य जीवस्य भगवत्सम्बन्धि यत् स्वरूपं, तद्वा अथैतदात्मकाममाप्तकाममकाम- रश्मिः। प्रकटार्थप्रत्यूढा इति तदिच्छानुसार्यर्थमाहुः अर्थस्त्विति तद्ब्रह्मैवेतीति संबन्धः सन् सद्ब्रह्मेति भाष्यात् विशेषणमत्र सतदिति पाठमङ्गीकुर्वाणाः । स जीव इति । तदेव एतीति व्याख्यातम् । तत्किमिति । तत्पदार्थो भाष्ये ब्रह्मोक्तं मुख्ये कार्यसंप्रत्ययेन सामान्यस्तत्पदार्थः किमिति प्रश्नः । प्रधानभूतमित्यर्थो लिङ्गस्येन्द्रियनायकत्वात् । तथेति भगवच्चरित्रत्वम् । अग्रिमग्रन्थमवतारयांबभूवुः । अत इति अस्य ग्रन्थस्यानन्तरं पूर्वोक्तात् अस्मै लोकाय कर्मणे इति गतागतमयात् । वदन् वेदः । शिष्टेति सुषुप्तिशिष्टतया । अथेति अथाकामयमानो योऽकामो निष्काम आत्मकाम आप्तकामो भवति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते ब्रह्मैव सन् ब्रह्माप्येति । तदेष श्लोको भवति । 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते' ॥ इति । तद्यथाऽहि निर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं ९शरीर९शेतेऽथायमनस्थिकोऽशरीरः प्राज्ञः आत्मा ब्रह्मैव लोक एव सम्राट् इति श्रुतिः । व्याकुर्वन्तीति सुषुप्तिपक्षेण व्याकुर्वन्ति स्म अकामेति । अथैति भाष्यसार्थः । प्राणस्थितीति न तस्मात्प्राणा उत्क्रामन्ति इति श्रुतेः । भगवत इति । भगवत्कर्तृकत्वस्य जीवे सत्त्वात् । भगवतः सकाशाज्जीवस्य निर्गमने । अर्थेति तथा च इत्यव्ययः । समवनीयन्ते इत्यत्रेति भावः । श्लोकेति तत्तस्मिन्मुक्ते मोक्षतत्साधनैर्ये अत्रास्मिन्नेव शरीरे । अत्रेदं वक्तव्यम् । एतच्छ्लोकीयस्यास्यैवाकामयमानस्येत्यादिना प्रकाशे व्याख्यानं तदसङ्गतं पाञ्चालत्वादिति । अतोत्र प्रभो भाति तस्मात्सार्धश्लोकादारभ्य व्याख्यान्तरं रच्यते तदेवेत्यादि । तदेव ब्रह्मैव सन् सद् ब्रह्मेति भाष्यात् । तदवस्थायामन्येषामसत्त्वात् । असङ्गोह्ययमिति श्रुतेः । तदिति ब्रह्मकर्मणा सहासावकामयमानस्य मनो यत्र नितरां सक्तं तल्लिङ्गमेति । कर्मणोन्तमवसानं प्राप्य । अयं भगवान् न च जीवः । कर्ता कर्मसंबद्धश्चेति भाष्यम् । एष उ एव साधु कर्म कारयतीति पराणुदच्छ्रुतेरित्यत्र कर्तृत्वं कृतित्वं स्वातन्त्र्यं वा कर्तृत्वम् । 'स्वतन्त्रः कर्ता' इति सूत्रात् । श्लोके तद्ब्रह्मेत्यादि भाष्यं व्याकृतम् । एवम्- 'निर्विण्णानां ज्ञानयोगः कर्मयोगस्तु कामिनाम् । न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः' ॥ इति । 809