अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 915, कुल 2600 में से
संदर्भ में पढ़ें८२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ११ सू० ४२ अभिधीयते । ब्रह्मैव प्रकरणार्थः । सुषुप्त्युत्क्रमणे च जीवब्रह्मणोर्भेदेन व्यपदेशात् । भाष्यप्रकाशः । तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवतीति सर्वदुःखतरणाभावत्वेन च परमात्मभिन्ना- संसारिरूपप्रतिपादनपरमेवैतद्वाक्यमित्यतोऽसंसारी परमेश्वरभिन्नो जीवो वाच्य इत्यर्थः । सिद्धान्तं व्याकुर्वन्ति ब्रह्मैवेत्यादि । अयमर्थः । सत्यमत्र मुक्तजीववस्था निरूप्यते । तथापि स न प्रकरणार्थः । तत्र हेतुः सुषुप्तीत्यादि । तथा च यदि मुक्तो जीवो ब्रह्माभेदेनात्र प्रतिपाद्यः स्यात् तदा अवस्थाभेदस्याप्रयोजकत्वेन तत्र जीवं परमेश्वराज् भिन्द्यात् । प्रतिपिपा- दयिषिते अभेदे भेदकथनस्य प्रयोजनशून्यतया वैयर्थ्यप्रसङ्गात् । नच संसार्यवस्थायां भेद- बोधनाय तदिति युक्तम् । तदानीं जाग्रत्स्वप्नयोरज्ञत्वादिवैशिष्ट्यस्य प्रत्यक्षसिद्धत्वेन सुषुप्ति- मरणयोस्तमोऽभिभवेन तथात्वस्याज्ञानेऽपि सौषुप्तिकस्मरणेन मृतानां भूतादिभावदर्शनेन चानु- मानसिद्धतया तत्कथनवैयर्थ्यानपायात् । अतो ज्ञायमानावस्थासिद्धं भेदमनूद्य यदज्ञायमानाव- स्थासिद्धं भेद्मनुवदति तदसंसार्यवस्थायामपि भेदबोधनायैवानुवदति । यथोदकं शुद्धं शुद्धे आसिक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतमेति काठके तथैव श्रावणात् । नच तद्युपक्रमाद्यनुरोधादसंसारी परमेश्वरसमानधर्मा जीवो वाच्योऽस्त्विति वाच्यम् । उपक्रमे किं ज्योतिरियं पुरुष इति प्रकाशकप्रश्ने, आदित्याद्यनन्तरमात्मज्योतिरित्य॒त्तरे पुरुषस्य प्रकाशा- पेक्षित्त्वेनाप्रकाशकत्वात् । प्रकाशक आत्मा क इत्याशयेन पृच्छति । कतम आत्मेति । तत्र स्पष्टतया वक्तव्येऽप्युत्तरे याज्ञवल्क्यो, न वदिष्य इति स्वाभिसंधेर्वरदानस्य चानुरोधाच्छिष्ट- ह्येवोत्तरं ददातीति पूर्वं व्युत्पादितम् । अतस्तद्विचारे, अत्रायं स्वयञ्ज्योतिर्भवतीति निग- मनवाक्ये परमात्मैव स्वयंपदवाच्यः सिद्ध्यतीत्युपक्रमगतः प्रश्नस्तत्पर एव पर्यवस्यति । तथापि शिष्टप्रयोगाञ्जनेकेन सम्यङ् न ज्ञातः । एतावज्ज्ञातं, संसारिव्यतिरिक्तः प्रकाशक इति । रश्मिः । श्लक्षामावरूपत्वाभावाज्ञ भेदरूपप्रतियोगिनः प्रयोजकत्वमित्याहुः प्रतीति । तम इति ज्ञानावरण- दर्शनात्तमोभिभवः । तथात्वस्येति अज्ञत्वादिवैशिष्ट्यस्य । सौषुप्तीति सुखमहमस्वाप्सं न किंचिदवेदिषमिति स्मरणेन तथा च न किंचिदवेदिषमित्यत्र किंचिद्विषयकवेदनप्रतियोगिकाभावः किंचिद्विषयकवेदनं विनानुपपद्यमानं पूर्वं किंचिद्वेदनं ज्ञापयति । भूतादिभावश्च मरणेऽज्ञत्वादि- वैशिष्ट्यम् । सुषुप्तः पूर्वमज्ञत्वादिविशिष्टः न किंचिदवेदिषमिति स्मरणाद् देवदत्तवत् । मृतः अज्ञत्वादि- विशिष्टः प्रेतयोनेः धुन्धुकारिवत् । धुन्धुकारी श्रीभागवतमाहात्म्येस्ति यन्नैवं तन्नैवं जनकवत् । तत्कथनेति भेदकथनेत्यर्थः । अधुना 'स ईक्षांचक्रे' 'एकोऽहं बहु स्यां प्रजायेय' इति भेदसैच्छि- कत्वात् तादृशभेदमादायाहुः अत इति । अज्ञायमानेति सुषुप्त्युत्क्रान्त्यवस्थाऽज्ञायमानावस्था तत्सिद्धं भेदं सुषुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रे व्यासोऽनुवदति सिद्धस्य कथनमनुवादः । अत्र श्रुतिं प्रमाणयामासुः यथोदकमिति । पुरुषस्येत्यात्मनः । तन्नेति अन्ते । श्लिष्टमिति संसारिसिद्धं असङ्गलरूपमुक्तिसिद्धं वा इयं समावस्था । पूर्वमिति ब्राह्मणव्याख्याने । तद्विचार इति प्रकाशकत्वविचारे । उपक्रमेति कतम आत्मेति प्रश्नः । किं ज्योतिरयं पुरुष इति वा प्रश्नः । तत्पर इति वाग्बदवख्यातिक्रमेण सात्विकालपर एव । श्लिष्टेति सभासङ्गल रूपमुक्तिकिद्वप्रयोगात् । 822