अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 942, कुल 2600 में से
संदर्भ में पढ़ेंततः पञ्चमे एकसूत्रे समाकर्षाधिकरणे ननु श्रुतौ क्वचित्सतः कारणत्वमुच्यते, क्वचि- दसत:, क्वचिदुभौ निषिध्य तमः, क्वचिदव्याकृतस्येत्येवं विप्रतिषेधाद् ब्रह्मणोऽपि कारणत्वं न सिध्यति । तस्मात्स्मृतिरेव कारणबोधिका प्राप्तेत्याशंकायाम्, असदादिशब्देषु न निरात्मकत्वार्थो उच्यते, किंतु ततः समाकृष्य सर्वैः शब्दैर्ब्रह्मैवोच्यते । सर्वेषां शब्दानां प्रणवविकृतित्वेन प्रणवार्थे एव पर्यवसानात् । प्रणवस्य च ब्रह्मवाचकत्वात् । तस्मान्न विप्रतिषेध इत्युक्तम् । एवं द्वाभ्यां श्रुतौ शब्दविप्रतिषेध उपोद्घातेन परिहृतः ॥ ५ ॥ ततः षष्ठे त्रिसूत्रे जगद्वाचित्वाधिकरणे कौषीतकिब्राह्मणषष्ठाध्यायस्थं बालाक्यजात- शत्रुसंवादं विषयत्वेनोपन्यस्य तत्र किं ब्रह्मसहितो जीवः कर्तृत्वेनोच्यते, उत ब्रह्मैव वेतिसंदेहे, ब्रह्म- सहितस्य जीवस्यैव कर्तृत्वमाशङ्क्य, 'यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वै तत्कर्म स वै वेदितव्य' इत्यजातशत्रुणा सिद्धांतकथनोपक्रमे एतच्छब्देनादित्यमण्डलादिजडोल्लेखात्पुरुषशब्देन च जीवोल्लेखात् जीवजडात्मकं जगत्कर्तृकं तस्य वेदितव्यत्वकथनेन श्रुत्यंतरसिद्धब्रह्मण एव कर्तृत्वम्, न प्रकृत्यभिमानिजीवस्येति प्रथमसूत्रे उक्तम् । ततो द्वितीयसूत्रे जीवमुख्यप्राणलिङ्गदर्शनान्न ब्रह्मणः कर्तृत्वमिति सूत्रांशेनाशङ्क्य, अंशातरेण पूर्वमनुगमाधिकरणे उक्तं समाधानं स्मारयामास । जीवस्य ब्रह्माश्चितत्वान्मुख्यप्राणस्य च ब्रह्मयोगादत्र तथात्वेन कथनं न स्वेन रूपेण । तस्माद्ब्रह्मैव कर्त्रित्युक्तम् । ततस्तृतीये सूत्रे प्रकृत्यभिमानिजीवस्य कर्तृत्वमप्यस्मिन् वाक्येऽनभिमतम्, जीव- लयोद्गमयोर्ब्रह्मप्रतिपत्त्यर्थत्वात् । प्रश्नव्याख्यानाभ्यां तथावसायात् । वाजसनेयिनामेतत्समानप्र- करणेपि तथावसायाच्चेत्युक्तम् । एवमत्र जीवब्रह्मवादनिराकरणेन जीवविशिष्टा प्रकृतिरेव कारणमित्ये- तदुपोद्घातेन निराकृतम् ॥ ६ ॥ ततः सप्तमे चतुःसूत्रे वाक्यान्वयाधिकरणे जीवब्रह्मवादनिराकरणेन प्रकृतिकारण- वादो निराक्रियते । तत्र बृहदारण्यकस्थं मैत्रेयीब्राह्मणद्वयं विषयत्वेनोपन्यस्य, तत्र जीवस्य प्रकरणित्वं ब्रह्मणो वेति संशये, वेदरूपमहावाक्यस्य ब्रह्मण्येवान्वयदर्शनात्, सुखरूपभगवदन्वयेनैव जीवस्यापि प्रियत्वात्, सर्वोपनिषदनुरोधेनास्यापि वाक्यस्य ब्रह्मण्येवान्वयादत्रापि ब्रह्मैवोच्यत इत्युक्तम् । ततो द्वितीयसूत्रेऽस्मिन् वाक्ये ब्रह्मैवोच्यते इत्यत्रान्येषां ब्रह्मवादैकदेशिनां संमतिं वक्तुं प्रथममा- श्मरथ्यमतेनाह । तन्मते हि ब्रह्मणा स्वस्य भोगनिष्पत्त्यर्थं विस्फुलिङ्गवत्प्रकटीकृतः स्वांशो जीवः, तेन जीवेनोपक्रमः, तस्यैव प्रियत्वेन संसूचनात्, उपक्रमस्य च बलिष्ठत्वात् जीवात्मैव प्रकरणीति स एव ज्ञेयत्वेनोपदिश्यते इतिशंकायाम्, नात्र जीवात्मनो ज्ञेयत्वेनोपदेशः, किंतु परमात्मन एव । जीवैनोपक्रमस्तु 'आत्मनि वा विज्ञाते सर्वमिदं विज्ञातं भवती'तिप्रतिज्ञायाः सिद्धिः तस्या लिङ्गम्, यदि हि जीवः परमात्मनः सकाशाद्भिन्नः स्यात्, तदा परमात्मज्ञाने तदज्ञानादात्मज्ञानेन सर्वज्ञान- प्रतिज्ञा न सिध्येत् । अतस्तदर्थमुपक्रमे जीवः परामृश्यते, न तु प्रकृतिसंसृष्टस्य जीवस्य कारणत्वार्थ- मित्याश्मरथ्यमतमुक्तम् । ततस्तृतीये सूत्रे, यदत्रोपक्रमे गौणप्रियवैराग्यार्थं जीवकथनं, तत्त्वना- दिसिद्धावापि जीवस्य संसारभावादुत्क्रमिष्यतो मुक्तौ जीवो भगवानेव भविष्यतीति बोधनार्थं लिङ्गम्, न तु प्रकृतिसंसृष्टजीवस्य कारणत्वार्थम् । तस्मान्नात्र प्रकृतिसंसृष्टजीवकारणवाद इत्यौडुलोमिमतमुक्तम् । ततश्चतुर्थे सूत्रे कयाचिदवस्थयावस्थितं ब्रह्मैव जीवः । अतः संसारदशायामपि जीवो ब्रह्मैवेति ज्ञापनार्थं तदुपक्रमो, नतु प्रकृतिसंसृष्टस्य जीवस्य कारणत्वार्थमितिकाशकृत्स्नमतमुक्तम् । तस्माद्ब्रह्मै- वात्र कारणत्वेनोच्यते ॥ ७ ॥