अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 950, कुल 2600 में से
संदर्भ में पढ़ेंततः षष्ठे चतुःसूत्रे नैकस्मिन्नसंभवादित्यधिकरणे विवसनस्य स्याद्वादिनो निराक- रणम् । स हि स्यादस्ति, स्यान्नास्ति, स्यादस्ति नास्ति, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यः, स्यान्नास्ति चावक्तव्यः, स्यादस्ति नास्ति चावक्तव्य इत्येवं सप्तभंगी मन्यते । सप्तभंगी नाम सप्तानां भंगानां समाहारः । सा च सार्वत्रिकी । तदिदं प्रत्यक्षविरुद्धम् । न ह्यस्तिनास्त्यादिभंग एककालं सर्वेषां दर्शनगोचरीभवतीति । तस्मादसंभवञ्चसंगतः । किंचेयं सप्तभंगी सार्वत्रिकेति तदुक्तसाधनेषु तदु- पदिष्टेषु तीर्थंकरेपु तदुक्ते मोक्षरूपे फले चानुवर्तमाना सर्वेष्वेव तदुक्तेष्वनाश्वासं जनयतीत्यतोऽप्य- संगतस्तद्वाद इत्युक्तम् । ततो द्वितीयसूत्रे तदुक्तमात्मस्वरूपं दूष्यते । स हि आत्मानं कृत्स्नं मन्यते । सृष्टिं च परमाणुभ्योऽङ्गीकरोति । मोक्षे च निरावरण आत्मा तिष्ठतीति । तदिदं दूष्यते । परमाणुभ्य एव सृष्ट्यंगीकारोनात्मनो वस्तुपरिच्छेदांगीकारादकार्त्स्न्यं सर्वत्वं न भवति । तथा च मोक्षदशायामवलोकाकाशवर्तित्वेन तत्कृतावरणसंभवान्निरावरणप्रतिज्ञाहानिः । किंच, सर्व- वस्तुष्वात्माभावादात्मनामस्तिकायत्वप्रतिज्ञाहानिश्चेत्यर्थ इत्युक्तम् । ततस्तृतीये तदभ्युपगतो देह- परिमाणात्मवादो दूष्यते । स हि देहपरिमाण आत्मेति मन्यते । सूक्ष्मदेहे सूक्ष्मः । स एव स्थूलदेहे स्थूल इति । एवं पर्यायेण तत्तत्परिमाणांगीकारे अवयवोपचयापचयाभ्यामात्मनोपि विकारापत्तिः । संकोचविकाशेपि विकारस्य दुःपरिहारत्वादित्युक्तम् । ततश्चतुर्थे तदुक्तमात्मपरिमाणमेव दूष्यते । स हि मोक्षावस्थावस्थितजीवस्य परिमाणं नित्यं वदति । तदग्रे देहाभावात् । संसारावस्थायां त्वनि- त्यम् । तथा सति संसारावस्थायां चार्वाकवदात्मन अनित्यत्वापत्तिः । तथा सति मोक्षः कस्य स्यात् । अतः संसारावस्थायामपि तस्य नित्यं परिमाणमंगीकार्यम् । अणु वा महद्वा । तथा सति देहपरिमा- णात्मवादस्त्वसंगत इत्येवं दूषितमित्युक्तम् । एतेषु षट्स्वप्यधिकरणेषु ब्रह्म जगदुपादानं न वेति संदेहः, तत्तन्मतविरोधः संदेहबीजम्, नेति पूर्वः पक्ष, सर्वसमयानामयुक्तत्वाद् ब्रह्मैवोपादानमिति सिद्धांतो ज्ञेयः । षष्ठे तु ब्रह्मैव विरुद्ध- धर्माधारम्, नेतरदिति नियमो युक्तो न वेति संदेहे, स्याद्वादिभिः सर्वत्र तथाभ्युपगमान्नेति पूर्वः पक्षः, स्याद्वादस्यासंगतत्वाद्ब्रह्मैव तथेति नियमो युक्त एव, श्रुत्या भक्तप्रत्यक्षेण च प्रमितत्वादिति सिद्धांत इति प्रकारांतरमधिकं ज्ञेयम् ॥ ६ ॥ ततः सप्तमे पंचसूत्रे पत्युरसामंजस्यादित्यधिकरणे नैयायिकवैशेषिकहैरण्यगर्भपा- तंजलकापालिककालामुखपाशुपतैश्चा ईश्वरस्य निमित्तमात्रत्वं मन्यंते, न तूपादानत्वम्, तद्दूष्यति ।- यदीश्वरः निमित्तमात्रं स्यात्तदा केषांचित्सुखं केषांचिद्दुःखं ददद्विषमो निर्घृणश्च स्यात् । अतो सामं- जस्यात्तन्मतमसंगतम् । ततो द्वितीये तन्मते जीवब्रह्मणोर्विभुत्वादजसंयोगस्य वक्तुमयुक्तत्वेन पति- त्वानुपपत्तिः । यदि च संबंधोऽङ्गीक्रियेत, तदापि विभुत्वनित्यत्वाभ्यां तुल्यत्वापत्त्या नियम्यनिया- मकभावाद्यनुपपत्तेः संबंधानुपपत्तिरित्युक्तम् । ततस्तृतीये ईश्वरः शरीरं किंचिदाधारं चाधिष्ठाय करोति, तद्विना वा । आद्ये तन्नित्यमनित्यं वा । आद्ये परमाणुपुंजरूपस्य तस्य कार्यानर्वाहकत्वम्, अवयवित्वाभावात् । द्वितीये तु जन्यत्वम् । तथा सति तत्कर्तुर्निरूपुमशक्यत्वादनवस्थापत्तिः । अशरीर एव करोतीति मतम्, तदा तु मुक्तानामिव तस्यापि कर्तृत्वानुपपत्तिः । अतोधिष्ठानानुप- पत्त्या तन्मतमसंगतम् । ततश्चतुर्थे यथा जीवोऽशरीर एवेंद्रियादीनि करणान्यधितिष्ठति, निय- मयति, तथेश्वरोप्यशरीर एव जीवान् नियमयिष्यतीति सूत्रांशेनाशंक्य, सूत्रांशेन समाहितम् । यदि जीवदृष्टांतेन तथांगीक्रियते, तदा तद्दृष्टांतेनैव तस्य सुखदुःखभोगाद्यापत्तिः । (ततः पंचमे तैर्जड-