भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 952, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 952

सप्तमे ननु निरवयवत्वादीनां बाधकानामुक्तत्वात्सा कथं संभवतीत्याशंकायाम्, आकाशो नोत्पद्यते, निरवयवत्वादित्येवं साधने, उत्पद्यते लौकिकव्यवहारविषयत्वादित्येवं साधने, उत्पद्यते, लौकिक- व्यवहारविषयत्वादित्येवं सत्प्रतिपक्षत्वेन युक्तीनामप्रयोजकत्वमुक्तम् । तस्माच्छ्रुत्युक्ता आकाशोत्पत्ति- रंगीकार्येत्युक्तम् ॥ १ ॥ ततो द्वितीये एकसूत्रे एतेन मातरिश्वेत्यधिकरणे एवमेव वायोरुत्पत्तिरिति साधि- तम् ॥ २ ॥ ततोऽग्रिमसूत्रे ब्रह्मणोऽप्युत्पत्तिरस्त्विति वितंडायाशंक्य, मूलभूतस्य सतः नित्यत्वव्यापकत्वयो- र्निरंकुशत्वादुत्पत्तिर्न संभवतीत्युक्तम् ॥ ३ ॥ ततस्तृतीये एकसूत्रे तेजोऽत इत्यधिकरणे वायुतस्तेजस उत्पत्तिः समर्पिता ॥ ४ ॥ ततः पंचमे एकसूत्रे आप इत्यधिकरणे तेजस अपामुत्पत्तिः समर्पिता ॥ ५ ॥ ततः षष्ठ