अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 957, कुल 2600 में से
संदर्भ में पढ़ेंमृत्युमतिक्रान्तो दीप्यत' इतिश्रुतेरित्युक्तम् । ततो द्वितीये प्राणस्य तत्संबंघश्च . नित्यत्वमुक्तम् । तेन प्राणसहिता एव देवा वागादीनधितिष्ठंति । तेनैव जीवस्य भोगसिद्धिः, तेषां जीवोपकारकत्वं च सिद्धमित्युक्तम् ॥ ७ ॥ ततोऽष्टमे त्रिसूत्रे इंद्रियाणि तद्व्यपदेशादित्यधिकरणे इंद्रियाणां प्राणाधीनसर्वव्या- पारत्वात् प्राणशब्दवाच्यत्वाच्च प्राणवृत्तिरूपाणींद्रियाणीत्याशंक्य, तत्त्वांतराणीति सिद्धांतितम् । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चे'ति तत्त्वोत्पत्तिबोधकश्श्रुतौ प्राणाद्भिन्नतयेंद्रियत्वेन व्यप- देशात् । नन्वेवं व्यपदेशमात्रेण भेदे सति प्राणापानादिव्यपदेशभेदादासन्न्योपि प्राणादिभ्यो भिन्नः स्यादिति नाशंकनीयम् । प्राणादिशब्दानां पाचकपाठकादिवदासन्थे यौगिकत्वान्न तद्भेदकत्वम् । इंद्रियशब्दस्य तु न यौगिकत्वम् । अतो नैतद्दृष्टान्तेनाशंकनीयमित्युक्तम् । ततोऽग्रिमसूत्रद्वये हेत्वंतरमित्युक्तम् । यत्रापि प्राणशब्दप्रयोगस्तत्रापि भेदेन श्रूयते । 'तमुत्क्रामंतं प्राणोऽनूत्क्रामती'ति, 'प्राणमुत्क्रामंतं सर्वे प्राणा अनूत्क्रामंती'ति । वैलक्षण्यं च, प्राणस्य चेंद्रियाणां च । 'सुप्तेषु वागादिषु प्राणो जागर्ति । स्वामिसेवकवच्चानेकं वैलक्षण्यम्' ॥ ८ ॥ ततो नवमे एकसूत्रे संज्ञामूर्तिकॢप्तिस्त्वित्यधिकरणे भूतभौतिकसृष्टिः परमेश्वरादेवेति निर्णय, नामरूपव्याकरणमपि परमेश्वरादेवेति निर्णीयते । तत्र नामरूपव्याकरणं लोके जीवानामेव दृष्टमिति हिरण्यगर्भादेव तद्व्याकरणमित्याशंक्य, नामरूपव्याकर्ता परमेश्वर एव । छांदोग्ये 'हंता- हमिमास्तिस्रो देवताः अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी'तिश्रुतौ नामरूपव्याकर्तृत्वेन त्रिवृत्कुर्वतः परमेश्वरस्यैवोक्तत्वात् । नामव्याकरणं हि वाक्साध्यम् । रूपव्याकरणं क्रियासाध्यम् । वाक्क्रिये च शरीरं विना जीवस्य न संभवतः । शरीरं नामरूपव्याकरणोत्तरं भावि । तस्मान्न जीव- स्तत्कर्ता, किंतु परमेश्वर एव तत्कर्तेत्युक्तम् ॥ ९ ॥ ततो दशमे द्विसूत्रे मांसादिभौममित्यधिकरणे 'एतस्माज्जायते प्राण' इतिश्रुतौ प्राणस्येंद्रियाणां च भगवतः सकाशात्सृष्टिरुक्ता । छांदोग्ये तु 'अन्नमशितं त्रेधा विधीयत इतिश्रुतौ मनःप्राणवाचां भौतिकत्वं श्राव्यते । 'अन्नमयं हि सौम्य मनः, आपोमयः प्राणः, तेजोमयी वागि'- त्यनेन, 'एतस्माज्जायत' इतिश्रुत्युक्ताया उत्पत्तेः परम्परयाप्युपपद्यमानत्वात् । 'अन्नमय'मित्यादिश्रुते- स्तु मांसादिसाहचर्येण विशेषबोधकत्वात् । मनआदीनां भौतिकत्वमेवेति प्रथमसूत्रेणाशंक्य, द्वितीयसूत्रे तेषां तत्त्वांतरत्वमेवेति स्थापितम् । मनःप्रभृतीनामन्नमयत्वादिकं तु अन्नादिपोषित- त्वेनाप्युपपद्यते । 'पंचदशाहानि माशी'रित्याद्युपपादकदर्शनात् । सर्ववाक्ये साक्षात्सृष्टेरुक्तत्वेन तत्र परंपरायाः प्रवेष्टुमशक्यत्वात् । तस्मात्तत्त्वरूपाणि तानि भगवत एवेति सिद्धांतितम् । एवमस्मि- न्नध्याये सर्वोपि विरोधः परिहृतः ॥ १० ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां द्वितीयाध्यायस्य चतुर्थः पादः । द्वितीयाध्यायः समाप्तः । तृतीयोऽध्यायः । तृतीयाध्यायस्याधिकरणार्थसंग्रहः । ततस्तृतीयेऽध्याये जघन्यमध्यमाधिकारिणां साधनसंप- त्तावुपनिषदां विधाजनकता, अन्यथा तु सत्संप्रदायेपि परोक्षज्ञानजनकतेवेत्यतः प्रथमे पादेऽवि- 860