अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 961, कुल 2600 में से
संदर्भ में पढ़ें३६ वेदान्ताधिकरणमाला । एवमुभयलिङ्गविरोधे सिद्धे उपनिषदां पूर्वाध्यायद्वयोक्ता ब्रह्मबोधकता वक्तुं न शक्यत इत्याक्षेप- संगत्योक्तम् ॥ ४ ॥ ततः पंचमे पंचमसूत्रे अरूपवदेव हीत्यधिकरणे एकदेशिमतेन समाधानमुच्यते । सत्य- मुभयलिङ्गविरोधस्तथापि 'सर्वकामः सर्वगंधः' इत्यादयो जडजीवधर्मा ब्रह्मण्युपदिश्यमाना उपास- नार्था भवंति । न च जडस्य भगवत्कार्यत्वाज्जीवस्य भगवदंशत्वात्तद्धर्मा अपि भगवद्धर्मा एवेति कथ- मुपासनार्थत्वमिति शंक्यम् । 'बहु स्या'मितीच्छया भगवत एव कार्यरूपतयांशरूपतया चैकदेशेन भवनात्कारणरूपस्य ततो भिन्नतया तस्मिन् रूपे जडजीवधर्मनिषेध एव युक्तः । तथा चाद्वैतपक्षे जडजीवधर्माणामपि ब्रह्मात्मकत्वाद् ब्रह्मत्वमेव, न तु ब्रह्मधर्मत्वम्, अतः सर्वकर्मत्वादीनां ब्रह्मण्यु- पचार एव, अरूपवतः सर्वप्रपञ्चविलक्षणस्यैवास्थूलादिवाक्यैः प्रधानत्वेन निरूपणात् । ततो द्विती- यसूत्रे एवं ब्रह्मणः सर्वव्यवहारातीतत्वे शास्त्रवैफल्यम्, 'मनसैवैतदाप्तव्य'मित्यादिश्रुतिविरोधश्चे- त्याशंक्य, यथा सौरः प्रकाशो व्यवहार्योऽव्यवहार्यश्च स्वतो न कर्तुं शक्यते, आगते तु सूर्ये मेघा- भावेन सांनिध्यात् व्यवहर्तुं शक्यते, तथा लौकिकवाङ्मनोभिर्ब्रह्म स्वतो न व्यवहर्तुं शक्यते, ईश्वरसंनिधाने तु शक्यते, अतोऽसंनिधाने सर्वव्यवहारातीतत्वम्, संनिधाने तु धर्मवत्त्वेन व्यवहार्य- त्वमिति न शास्त्रवैफल्यम् । नापि श्रुतिविरोधः । अन्यथा 'तं त्वौपनिषदं पुरुषं पृच्छामि', 'यतो वाचो निवर्तत' इत्यादिष्वन्यतरवैयर्थ्यं स्यात् । अतः संनिधानासंनिधानाभ्यां सधर्मकत्वनिर्धर्मक- त्वबोधनव्यवस्था मंतव्येत्युक्तम् । ततस्तृतीयसूत्रे 'आसीनो दूरं व्रजति,' 'अपाणिपादो जवनो ग्रहीते'त्यादौ परस्परविरुद्धा अलौकिकधर्माः अकारणककार्यवचनाच्चिन्त्याः श्राव्यंत इत्यव्यवहार्येऽपि तादृशधर्मसिद्ध्या शास्त्रवैफल्यनिरास इति किमर्थं संनिधानासंनिधानाभ्यां व्यवस्थांगीक्रियते, अलौ- किकानींद्रियाण्येव कुतो नांगीक्रियंत इत्याशंक्य, बृहदारण्यके 'स यथा सैंधवघन' इत्यादिना कृत्स्नस्य ब्रह्मणः प्रज्ञानघनत्वश्रावणान्नेंद्रियाणि कल्पयितुं शक्यानि । न च क्रियाभावोपि । तत्रैव वेदानां निःश्वसितरवस्य भूतसमुत्थानादेश्च श्रावणेन, तत्रैव निःश्वासोत्थानक्रिययोरुक्तत्वात् । अतो ब्रह्मैव सर्वाकारस्वरूपं, कृत्स्नत्वश्रावणात् । तस्मादिंद्रियकल्पनया विरोधपरिहारो न युक्त इत्युक्तम् । ततश्चतुर्थे सूत्रे नन्वभिन्ननिमित्तोपादानतया ब्रह्म जगत्कारणत्वेन सिद्धम्, कारणधर्मा एव च कार्ये भवंति, कामादयस्तु श्राव्यंते निषिध्यंते च, वेदवादिभिस्त्वण्वप्यन्यथा न कल्पनीयम्, अतः कथं विरोधपरिहार इत्याशंक्य, मूर्तामूर्तब्राह्मणे ब्रह्मणो रूपद्वयमुक्त्वा, 'अथात आदेशो नेति नेती'तिवारद्वयं कथनेन कार्यकारणयोः समानप्रकारनिषेधः कारणस्य ब्रह्मण एव स्वनिषेधश्च क्रियते । एवं रूपं निरूप्य 'सत्यस्य सत्य'मिति नाम च श्राव्यते, तेन प्रपंचातिरिक्तस्य ब्रह्मणो विद्यमानत्वात् तस्मिन् जडजीवधर्माणामौपचारिकत्वमेव युक्तम् । गीतास्मृतावपि 'सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जित'मिति 'अनादिमत्परं ब्रह्म न सत् तन्नासदुच्यते' इति चोच्यते । तेन श्रुतिस्मृतिभ्यां जडजीवधर्मरहितं ब्रह्मेति सिध्यतीत्युक्तम् । ततः पंचमे प्रपंचधर्मा ब्रह्मण्यौपचारिका इत्यत्र निदर्शनान्तरमुच्यते, 'यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोनुगच्छन्, उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमास्ते'तिस्मृतौ उपाधिना रूपभेदकथनात्, 'सूर्य मुविने'त्यादावपि निरूपमस्य भगवतो यत् पृथ्व्यादिकमुपमानं तदप्युपाधिसंबंधादेव जलसूर्यन्यायेन संभवति । तस्मात् साकारोपि ब्रह्मणि ते धर्मा न संतीत्यौपचारिका मंतव्याः, उपासनार्थमिति नोभयलिंगविरोध इत्येकदेशिमतेन समाधा- नम् । एतस्य मतस्य किंचिदंशेनोपादेयत्वाय प्रसंगादुक्तम् ॥ ५ ॥ 864