अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 963, कुल 2600 में से
संदर्भ में पढ़ें३८ वेदान्ताधिकरणमाला । ततोऽष्टमे त्रिसूत्रे प्रकाशादिवच्चेत्यधिकरणे पूर्वोक्त एवार्थः प्रकारांतरेण स्थिरीक्रियते । तत्र यथा सूर्यचंद्रमणिप्रकाशादिषूष्णशीतौ उभयरूपाः स्पर्शाः प्रतीयमाना अपि तेजसि तावंतो नांगीक्रियंते, किंतूष्ण एव स्पर्शोंगीक्रियते, एवं हिमतप्तकुण्डादिषु प्रतीयमाना अपि जले तावंतो नांगीक्रियंते, किंतु शीतस्पर्श एवांगीक्रियते, एवं सुवर्णे वर्णभेदा अपि, अतो न ते स्वाभाविकाः, तेजस्त्वादिस्वभावहानिप्रसंगात्, तथा ब्रह्मणोऽपि निर्विशेषत्वमेवांगीकर्तव्यं, सर्वत्र निर्विशेषं ब्रह्मेत्येव प्रसिद्धेः । अत एव 'अगृह्यो नहि गृह्यते' इत्यादिश्रुतयोऽपि संगच्छंते । न च पूर्वोक्तश्रुतिप्रत्यक्षादेः का गतिरिति शंकनीयम् । तपःप्रणिधानादिकर्मणि यथा तेषामुपासकानां कामस्तथा प्रकटीभवतीति तत्कामहेतुकं तादृशप्रत्यक्षम् । अत एव क्वचित्प्रत्यक्षं क्वचिदन्यथाप्रत्यक्षं च यद्येकवारमेकरूप एव प्रकटः स्यात्तादृशरूपमंगीक्रियेतापि, किंतु वारंवारं किंचिद्वैलक्षण्येन प्रकटीभवति । अतः प्रकाशोऽपि कृत्रिम एव, दीपप्रकाशवदित्येका शंका । तस्मान्न भक्तप्रत्यक्षेण निर्णय इति प्रथमसूत्रे उक्तम् । ततो द्वितीयसूत्रे एकस्य वस्तुनः निमित्तं विना प्रतिक्षणमन्यान्यादृशत्वं न वक्तुं शक्यते, अतोऽनंतरूपेणा- विर्भावे भक्तकाम एव निमित्तम् । तथा सति तद्विग्रह एव, न तु ब्रह्मस्वरूपम् । अत एव 'यद्यद्धिया तु उरुगाय विभावयंति तत्तद्वपुः प्रणयसे सदनुग्रहाये'ति तृतीयस्कंधे ब्रह्मणाप्युक्तम् । अतस्तच्छरी- रमेव, न तु ब्रह्मस्वरूपमिति द्वितीया शंका । तस्मान्न श्रुत्या निर्णयः, नापि भक्तप्रत्यक्षेणेति सूत्रद्वये- नाशंक्य, तृतीयसूत्रेण सिद्धांतमाह । नैवं केवलयुक्त्या लौकिकदृष्टांतेन निर्णयः कर्तुं शक्यः, शास्त्रवैयर्थ्यप्रसंगात् । अत्र हि वेदादेव ब्रह्मस्वरूपमवगम्यते, तत्कथं स्वरूपशक्त्यैकतरनिर्णयः, वेदे निर्गुणत्वेनानंतगुणपूर्णत्वेन च व्यपदेशात् । तर्ह्येकस्यानेकधाभानं कथमिति तु न शंक्यम् । यथा एक एव सर्प ऋजुरनेकाकारः कुंडलश्च भवति, तद्वदुभयरूपताया उपपत्तेः । न चैवं यथाश्रुतांगी- कारे शास्त्रवैफल्यं शंक्यम्, नानास्वभावैः सूरिव्यामोहे तन्निवारणार्थत्वेन शास्त्रसाफल्यात् । तस्मा- च्छ्रुतिप्रत्यक्षाभ्यां यत्पूर्वं निर्णय उक्तः, स एव सिद्धांत इत्युक्तम् ॥ ८