अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 980, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८३१ महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः' इति काठके श्रूयते । तत्र बुद्धेरात्मा अहंकारः । ततो महान् महत्तत्त्वम् । ततोऽव्यक्तं प्रकृतिः । ततः पुरुष इति । न ह्यहंकारादयः पदार्था ब्रह्मवादे संभवन्ति । तस्मादेवंजातीय- केषु तन्मतपदार्थानां श्रवणान्मायाप्रकृत्यविद्यावादा अपि श्रौता इति चेन्न । भाष्यप्रकाशः । इत्यादि । कात्र प्रकृत्यादीत्यतो व्याकुर्वन्ति तत्र बुद्धेरित्यादि । बुद्धेरात्मा अहंकार इति । पर इत्यनुषज्यते । बुद्धेः सकाशादात्मा । 'सर्वात्मनोऽन्तःकरणं गिरित्रम्' इत्यन्तःकरणत्वेन सिद्धस्य गिरित्रस्य, 'चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्राः' इति स्वस्मिन्ना- त्मपदप्रयोगादात्माऽहंकारः पर इत्यर्थः । शेषं स्फुटम् । तथा चैवमत्र सांख्यमतप्रत्यभिज्ञानात् तन्मतं श्रौतमिति तदाहुः नहीत्यादि । अपिशब्दार्थमाहुः तस्मादित्यादि । एवंजातीयके- ष्विति । वक्ष्यमाणेष्वजादिवाक्येषु । मायाप्रकृत्यविद्यावादा इति । मायां तु प्रकृतिं विद्यात्, पञ्चाब्रह्मवेदां पञ्चपर्वामघौम' इत्यादिवाक्येष्वभिमन्यमानाः । एवं पूर्वपक्षमनूद्य तद्दूषकं रश्मिः । भवन्ति चरकाह्वर्का कठोः प्राच्यैकठाः कपिष्ठलकठोश्वारायणीयाः वार्तन्तव्याः श्वेताः श्वश्वतराः औपमन्यवेः पांता ऐरिनेयौः मैत्रायणीयाश्चेति । श्वेताश्वतरोपनिषदिति प्रसिद्ध्याकारो न वाचनीयः षडालिखितपाठक इति हि भाष्ये पाठकाधमेषु गणनात् । अतो द्वादश । यद्वा चरका इत्युद्देश्यं अग्रे द्वादशविधेयानि । तथा चायं भाष्यार्थः । एकेषां मुख्येभ्यः सामान्यार्थशास्त्रिभ्योऽन्येषां यजुर्वेदशाखिनां शाखासु चरकादिनाम्नीषु यद्वा एकेषां चरकानां केवलानां शाखिनां शाखासु हरकादिषु इति । कठशाखायामित्यर्थः । कात्रेति अत्र श्रुतिषु सांख्यसिद्धप्रकृत्यादि केति प्रश्नः । सांख्य- सूत्रानुक्तान्येव । आत्मपदस्याहंकारवाचकत्वं बुद्धेः परत्वं च व्युत्पादयन्ति बुद्धेरिति । सर्वात्मनः पुरुषस्य । इदं द्वितीयस्कन्धेस्ति । अन्तःकरणत्वेनेत्यस्याहंकारत्वेनेत्यर्थः । चन्द्रो मनः । इदमुत्तरार्धं त्रिपष्टितमेध्याये शिवस्तुतावस्ति । अहं श्रीशिवः अहंकारः । आत्मेत्यात्मपदमहंकारवाचकम् । बुद्धेः परत्वमीश्वरस्य स्पष्टम् । 'यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः' ॥ इति । भुजा इन्द्रः । स्वस्मिन्निति श्रीकपर्दिनि ह्यहंकारे तथाच गिरित्रसाहंकारस्य चन्द्रो मन इत्याद्युक्तरीत्या वाचकं यदात्मपदं तस्य प्रयोगात् कस्मिन्नित्यतः स्वस्मिन्नहंकाररूपे श्रीशिवे इति पंक्तिकान्वयः । चैत्रस्य गुरुकुलममित्यस्यैकदेशान्वयः । सांख्येति तदिदं सांख्यमतं श्रुताविति सांख्यमतप्रत्यभिज्ञानम् । ननु वैदिकशब्दानां भिन्नत्वात्कथं श्रौतमिति चेन्न परमत ऐक्यात् अपपीति मायाविद्यासमुच्चये रूपम् । ननु मायावादः शांकराणां प्रकृतिवादो निरीश्वरसांख्यानां अविद्यावादः सैषाऽविद्या जगत्सर्वमिति श्रीनृसिंहतापनीयश्रुतेः तापनीयशाखिनामनिर्णयकर्तॄणामिति त्रयाणां भेद उक्तो भाष्ये तेषामैक्यं पूर्वपक्ष इति प्रमाणपूर्वकं तं पक्षमाहुः मायां स्थिति । पञ्च- पर्वाविद्या तासामभेदान्वयः आदिनाऽजादिवाक्यानि । श्रौता इति समख्या अभेदान्वयान् नामभेदेन प्रयुक्ता न्यख्या । अभीति अभिमन्यन्ते ये वादास्तेष्वभिमन्यमानाः 'लटः शतृशानचौ' 'बाने दृक्' । 883