अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 10, कुल 109 में से
संदर्भ में पढ़ें(४) अपरोक्षानुभूतिः । पया. अपरोक्षानुभूतिरक्षाणामिंद्रियाणां परमतीतं न- भवतीत्यपरोक्षमंद्रियाधिष्ठानतत्प्रकाशत्वाभ्यां नित्य प्रत्यक्षस्वप्रकाशात्मतत्त्वं तस्यानुभूतिर्वृत्त्यारूढाखंड- ता यद्वा अपरोक्षाचासावनुभूतिश्चेत्यपरोक्षानुभूति- र्विद्याऽपरपर्यायोब्रह्मसाक्षात्कारस्तत्साधनग्रंथोप्युपनि- षच्छब्दवदपरोक्षानुभूतिशब्देनोपचर्यते झटित्यवलो- कनमात्रेणैवोत्तमधिकारिणां ब्रह्मात्मसाक्षात्कारकारणं ग्रंथविषइत्यर्थः अनेन नित्यापरोक्षब्रह्मात्मतत्त्वं विशेष्यो दर्शितः स प्रोच्यते प्रकर्षेण तत्तदाशंकानिरा करणपूर्वकं सिद्धांत रहस्यप्रदर्शनरूपेणोच्यते कथ्यत इत्यर्थःअस्माभिःपूर्वाचार्यैरित्यर्थादध्याहारः ननु प्रायः प्रयोजनमनुद्दिश्य न मंदोपि प्रवर्तत इतिन्यायान्नारंभ- णीयो ग्रंथ इत्याशंक्य प्रयोजनमाह मोक्षसिद्धयइति मोक्षोनाम स्वाविद्याकल्पितानात्मदेहाद्यात्मत्वाभिमा- नरूपबंधनिवृत्तिद्वारा स्वस्वरूपावस्थानं तस्य सिद्धिः प्राप्तिस्तदर्थं अनेनसर्वानर्थनिवृत्तिद्वारापरमानंदावाप्ति- रूपं प्रयोजनं दर्शितं किंलक्षणाऽपरोक्षानुभूतिः सद्भिः साधुभिर्नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयसंपन्नैर्मु- मुक्षुभिरित्यर्थः एवशब्दान्नान्यैः कर्मोपासनाधिका- रिभिरितिभावः । मुहुर्मुहुर्नैरंतर्यदीर्घकालाभ्यासप्रयत्नेन स्नानभिक्षादावप्यनादरं कृत्वेत्यर्थः । वीक्षणीया गुरुमु- खादवगत्य विचारणीया अनेन मुमुक्षुरधिकारी दर्शितः