अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 19, कुल 109 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासहित । ( १३ ) ज्ञानं नोत्पद्यते तत्र दृष्टांतमाह यथेति यथा क्वचित्क- स्मिंश्चिद्देशे सूर्यादिप्रकाशेन विना पदार्थभानं घटादि- वस्तुप्रकाशो नभवति हीतिसर्वजनप्रसिद्धं अतो नि- यमः क्रियत इति भावः ॥ ११ ॥ भा. टी. विना ज्ञानके और साधनों करके नित्य अनित्य वस्तुका विचार नहीं होय है जैसे सूर्य्यदीपक इत्यादिकोंके प्रकाशके विना कहीं भी कोई घटपटादिपदार्थोंका भान नहीं होयहै ॥ ११ ॥ ( ज्ञानपूर्वक विचारस्वरूप ) कोऽहं कथमिदं जातं को वै कर्त्ताऽस्य विद्यते ॥ उपादानं किमस्तीह विचा- रः सोऽयमीदृशः ॥ १२ ॥ सं. टी. तर्हि स विचारः कीदृश इत्यत आह कोऽहमि ति अहं कर्त्ता सुखीत्यादिव्यवह्रियमाणः कः किंस्वरूपः तथा इदं जगत् स्थावरजंगमात्मकं कथं कस्माज्जातं किमधिष्ठानमित्यर्थः तथाऽस्यप्रत्यक्षादिप्रमाणसिद्ध- स्य जगतः कर्त्तोत्पादकः को विद्यते वै इति विकल्पं द्योतयति किं जीवदृष्टं कर्तृ किंवेश्वरः किं वान्यदेव किंचिदिति विकल्पः किं चेह जगति उपादानं घटस्य मृद्वत् किमस्ति अयमात्माजगत्कारणविषयः ईदृश एवंस्वरूपो विचारः स एव ज्ञानसाधनमित्यर्थः ॥१२॥