अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 34, कुल 109 में से
संदर्भ में पढ़ें( २८ ) अपरोक्षानुभूतिः । सं. टी. पुनः किंलक्षणं ज्ञानमित्यत आह निर्गुण इति । अहं निर्गुणो गुणरहितः गुणानां मायामयत्वा- दित्यर्थः अत एव निष्क्रियः क्रियारहितः तथा नित्यो विनाशरहितः अत एव नित्यमुक्तः कालत्रयेपि बंधशून्यः तत्र हेतुः अच्युतः अप्रच्युतसच्चिदानंदस्वभावः ॥२७॥ भा. टी. मैं रजोगुण सतोगुण तमोगुणरूप तीन गुणों करके रहितहूं क्रिया करके रहितहूं नित्यहूं नित्यमुक्तहूं अर्थात् सर्वदाही बन्धशून्यहूं अच्युतहूँ अर्थात् सदा ज्ञानमयहूं मैं नाशवान् देह नहींहूं इस प्रकार ज्ञानको पण्डित जन तत्वज्ञान कहैं हैं ॥ २७ ॥ निर्मलो निश्चलोऽनन्तः शुद्धोऽहम- जरोऽमरः ॥ नाहं देहो ह्यसद्रूपो ज्ञान- मित्युच्यते बुधैः ॥ २८ ॥ सं. टी. पुनरपि ज्ञानलक्षणमाह निर्मल इति । अहं निर्मलः अविद्यातत्कार्यलक्षणमलरहितः अत एव निश्चलः व्यापकत्वादाकाशवन्निश्चल इत्यर्थः निश्च- लत्वे हेतुः अनंतः देशकालवस्तुपरिच्छेदशून्यः शुद्धः अशुद्धिरहितः पुनरजरः जरारहितः अमरो मरणरहि- तश्च सर्वधर्माणां देहत्रयवर्तित्वादिति भावः ॥ २८ ॥ भा. टी. मैं निर्मल अर्थात् सर्वदोषों करके रहितहूं और निश्चलहूं अर्थात् चलायमान नहीं होऊंहूं अनन्तहूं