अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)
Aparokshanubhuti with Dipika & Hindi Commentary
आदि शङ्कराचार्य द्वारा
स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)
पृष्ठ 88, कुल 109 में से
संदर्भ में पढ़ें(८२) अपरोक्षानुभूतिः। अंगानां समताँविद्यात्समे ब्रह्मणि ली- यते ॥ नोचेन्नैवसमानत्वमृजुत्वंशुष्क- वृक्षवत् ॥ ११५ ॥ सं. टी. इदानीं देहसाम्यं लक्षयति अंगानामिति अंगानां ब्रह्मण्यध्यस्तानां स्वभावविषमानामधिष्ठान- समत्वदृष्टया समतां विद्याज्जानीयात् चेत्समे ब्रह्मणि अंगवैषम्यमित्यत्राध्याहारः तच्चेत्रोलीयते समब्रह्मरूप- तया न तिष्ठतीत्यर्थः तर्हीत्यत्रशेषः शुष्कवृक्षवदंगाना- मृजुत्वंसरलत्वमचंचलत्वं च यत्तत्समानत्वं नैव भवेदि- तिसंबंधः अंगानां विषमस्वभावत्वादितिभावः ॥११५॥ भा. टी. सब प्राणियोंमें समदृष्टि करके जो समान ब्रह्ममें लीन होयहै सो देहसाम्य कहावे है सूखेहुए काष्ठकी तरह समान वस्तुको समता नहीं कहे हैं ॥ ११५ ॥ दृष्टिं ज्ञानमयीं कृत्वा पश्येद् ब्रह्ममयं जगत् ॥ सादृष्टिः परमोदारा न नासा- ग्रावलोकिनी ॥ ११६ ॥ सं. टी. इदानीं दृक्स्थितिं लक्षयति दृष्टिमिति ब्रह्मणिफलव्याप्यत्वाभावेपिवृत्तिव्याप्यत्वात् दृष्टिमंतः करणवृत्तिं ज्ञानमयीमखंडब्रह्माकारां कृत्वा जगत्सर्वं ब्रह्ममयं पश्येत् ब्रह्मैवेदं सर्वमित्येतावन्मात्रैववृत्तिः का- र्येति भावः । स्पष्टमन्यत् ॥ ११६ ॥