आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 109, कुल 399 में से
संदर्भ में पढ़ेंतथा च गौतमः- (१)'मद्यं नित्यं ब्राह्मणस्य क्षत्रियवैश्ययोस्तु ब्रह्मचारिणो'रिति ॥२१॥ तथैलकं पयः ॥ २२ ॥ अवि एलका । तस्याः पयः क्षीरमपेयम् ॥ २२ ॥ उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ॥२३॥ उष्ट्रीमृग्यौ प्रसिद्धे । या गर्भिणी दुग्धे सा सन्धिनीति शाखान्तरे प्रसि- द्धा । एककालदोहेत्यन्ये । एकस्मिन् प्रसवे या अनेकं गर्भं सूते, सा यमसूः । उष्ट्रादीनां क्षीराण्येपेयानि । इतिकरणमेवं प्रकाराणामन्येषामे- कशफादीनां क्षीरमपेयमिति । तथा च मनुः- (२)'आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा । आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥ इति ॥२३॥ धेनोश्चानिर्दशायाः ॥ २४ ॥ धेनुर्नवप्रसूता गौः । चकारादजामहिष्योश्च । (३)'अजा गावो महि- ष्यश्चे'ति मानवे दर्शनात् ॥ २४ ॥ तथा कीलालोषधीनां च ॥ २५ ॥ कीलालोषधयः सुरार्था ओषधयः । तासां च विकारभूतमन्नमन्नाद्यम्॥२५॥ (४)करञ्जपलण्डुपरारीकाः ॥ २६ ॥ (५)करञ्जं रक्तलशुनम् । पलण्डु श्वेतम् । परारीका कृष्णम् । (६) मण्डु- १ गौ. ध. २. २० मद्य नित्य ब्राह्मण', इत्येव सूत्रम् ॥ २ म. स्मृ. ५. ९, ८. ३ म. स्मृ. नाय श्लोको मानवे उपलभ्यते । प्रत्युत 'अनिर्दशाया गोः क्षीरं (५. ८) इति श्लोकव्याख्यानावसरे कुल्लूकभट्टेन "गोरिति पेयक्षीरोपलक्षणार्थम् । तेनाजामहिष्यो- रपि दशाहमध्ये प्रतिषेधः, इति लेखनात् 'अजा गावो महिष्यश्चे'त्यस्याऽमानवत्वमेवाऽनु- मीयते । वस्तुतस्तु पाराशरीयं वचनामिदम् । ( परा. स्मृ. ३. ७.) तत्रैव दर्शनात् ॥ ४. कलञ्जपलाण्डुपरारीकाः इति क पु. परारिका इति. घ पु. ५. अनेनैव प्रमाणेन 'न कलञ्ज भक्षयेत' इत्यादौ कलञ्जशब्दो रक्तलशुनपर इत्य- स्माभिर्व्याख्यातं नञर्थनिरूपणावसरे मीमांसान्यायप्रकाशव्याख्यायां सारविवेचिन्याम् । तत्र प्रमाणान्तरमप्युपन्यस्त त त,त्रैव द्रष्टव्यम् ॥ ६. डुण्डुभाष्यया इति ख. पु. सुहण्डुभाष्यया इति. क. पु.