आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 112, कुल 399 में से
संदर्भ में पढ़ेंअभक्ष्याणि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १०१ मत्स्या विकृताकाराः । तत्रोदाहरणम्-यथा मनुष्याशिरमः जलमनु ष्याख्या जलहस्त्यादयश्च । तेऽपि सर्वे न भक्ष्याः । अत्र मनुः- (१)'अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ (२)मां स भक्षयिताऽमुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥' इति । (३)अप्रतिषिद्धेष्वपि भक्षणान्निवृत्तिरेव ज्यायसीत्यर्थः ॥ ३९ ॥ इत्यापस्तम्बधर्मसूत्रे सप्तदशी कण्डिका ॥ इति चापस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्ज्वलायां प्रथमप्रश्ने पञ्चमः पटलः ॥ ५ ॥ १. म. स्मृ. ५.५१. । २. श्लोकोऽयं नास्ति क. पु. ३. "अत्राप्रतिषिद्धेष्वपि निवृत्तिरेव ज्यायसी भक्षणपानमैथुनादिभ्य इत्यर्थः" इति ग पु. ।