आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 123, कुल 399 में से
संदर्भ में पढ़ेंअथ सप्तमः पटलः ॥ नेमं लौकिकमर्थं पुरस्कृत्य धर्मान्श्चरेत् ॥ १ ॥ इमं लौकिकं लोके विदितं ख्यातिलाभपूजात्मकम्, अर्थं प्रयोज- नम् । पुरस्कृत्य अभिसन्धाय । धर्मान् चरेत् ॥ १ ॥ किं कारणम् ? निष्फला ह्यभ्युदये भवन्ति ॥ २ ॥ हि यस्मादेवं क्रियमाणा धर्मा अभ्युदये फलकाले निष्फला भव- न्ति । (१)लोकार्थं ह्यसौ धर्मं चरति, न कर्तव्यमिति श्रद्धया । न च श्रद्धया विना धर्मः फलं साधयति । (२) 'यो वै श्रद्धामनारभ्ये'ति श्रुतेः॥ किमेवेदानीं दृष्ट फलं त्याज्यमेव ? नेत्याह- तद्यथाऽऽम्रे फलार्थे(३)निमित्ते छाया गन्ध इत्यनूत्पद्येते, एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते ॥ ३ ॥ तदिति वाक्योपन्यासे । फलार्थे ह्याम्रवृक्षो निर्मीयते आरोप्यते । तस्मिन् फलार्थे(४)निमित्ते छाया गन्धश्चाऽनूत्पद्येते। एवं धर्मे चर्यमाणमर्थाः ख्या- त्यादयोऽनूत्पद्यन्ते अनुनिष्पद्यन्ते । तथैव स्वी कार्या.(५) । न चोद्देश्यतया । तथा चाह- 'यथेश्चुहेतोः सलिलं प्रसेचयंस्तृणानि वल्लीरपि च प्रसिञ्चति । तथा नरो धर्मपथेन वर्तयन् यशश्च कामांश्च वसूनि चाऽश्नुते ॥'इति॥३॥ नो चेदनूत्पद्यन्ते न धर्महानिर्भवति ॥ ४ ॥ यद्यपि दैवादर्था नाऽनूत्पद्यन्ते तथापि धर्मस्तावद्भवति । स च स्व- तन्त्रः पुरुषार्थः । किमन्यैरर्थैरिति ॥ ४ ॥ अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु॥५॥ कुहक प्रकाशे शुचिरेकान्ते यथेष्टचारी । शठः वक्रचित्तः । नास्तिक. १ लोकभक्त्या इति क. पु २. तै. स १. ६ ८. यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टाय श्रद्दधते, इति श्रुतिः । अस्या अयमर्थः- ३. ४. निमिते इति क पु. ५. नचोद्देश्यतया इति नास्ति क.