आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 133, कुल 399 में से
संदर्भ में पढ़ें१३२ आपस्तम्बधर्मसूत्रे [(प.८.) क.२२. ज्ञानमविद्यादि संसारकारणं निवर्तयतीति चेन्न । क्रियाकारकफलानुप- मर्देनाऽऽत्मलाभाभावात् ज्ञानस्य कर्मभिः संहतत्वानुपपत्तेः । तैलवर्त्य- ग्नीनां तु सहभावित्वोपपत्तेरितरेतरोपकार्योपकारकत्वोपपत्तेश्च संहत- त्वं स्यात् । न तु ज्ञानकर्मणोस्तदुभयानुपपत्तेः संहतत्वं कदाचिदपि सम्भवति । केवलज्ञानपक्षे शास्त्रप्रतिषेधवचनाद्युक्तमिति चेन्न । ज्ञान- कार्यानिवर्तकत्वाच्छास्त्रप्रतिषेधवचनस्य । योऽयं कर्मविधिपरैः केवलज्ञानपक्षस्य सर्वसन्न्यासस्य विप्रतिषे- धो विरोधः, स नैव ज्ञानकार्यमविद्यादोषक्षयं वारयति (१)'भिद्यते हृद- यग्रन्थिः' (२)'तस्य तावदेव चिरम्' (३)'मृत्युमुखात् प्रमुच्यते' इत्ये- वमादिश्रुतिस्मृतिशतसिद्धम्, कर्मविधिपरत्वात् प्रवृत्तिशास्त्रस्य । न च (तत्) ज्ञानस्वरूपं ब्रह्मात्मैकत्वविषयं वारयति, सर्वोपनिषदामप्रा- माण्यानर्थक्यप्रसङ्गात्, 'पूः प्राणिनः'(२२ ४.) 'आत्मा वै देवता' इत्यादिस्मृतीनां च । तस्माद्यद्यपि बहुभिः प्रवृत्तिशास्त्रैर्विप्रतिषिद्धं केवलज्ञानशास्त्रमात्मैकत्वविषयमल्पं, तथापि सकार्यस्य ज्ञानस्य बल- वत्तरत्वान्न केनचिद्वारयितुं शक्यम् । जीवतो दुःखानिवर्तकत्वाज्ज्ञानस्याऽनैकान्तिकं क्षेमप्रापकत्वमिति चेत्, न, 'भिद्यते हृदयग्रन्थिः' 'ब्रह्मविदाप्नोति परम्', 'निचाय्य तं मृ- त्युमुखात् प्रमुच्यते' (४)'ब्रह्म वेद ब्रह्मैव भवति' इत्यादिश्रुतिस्मृति- न्यायेभ्यः । बहुभिर्विप्रतिषिद्धत्वात् सर्वत्यागशास्त्रस्य लोकवत् त्या- ज्यत्वमिति चेन्न, तुल्यप्रमाणत्वात् । मानसान्तानि सर्वाणि कर्मा- ण्युक्त्वा । (५)"तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्" इति तपःशब्दवाच्यानां कर्मणामवरत्वेन संसाराविषयत्वमुक्त्वा न्यास- शब्दवाच्यस्य ज्ञानस्य केवलस्य 'न्यास एवात्यरेचयत्' (६)'त्यागेनै- के अमृतत्वमानशुः' इत्यमृतत्वफलं दर्शयति शास्त्रम् । (७)"तस्यैव विदुषो यज्ञस्याऽऽत्मा यजमानः" इत्यादिना च वि- दुषः सर्वक(र्म?र्मा) भावं दर्शयति; “द्वौ पन्थानावत्रानुनिष्क्रान्ततरौ कर्मपथश्चैव पुरस्तात् सन्न्यासश्च, तयोः सन्न्यास एवातिरेचयति" इति च । विप्रतिषेधवचनस्य निन्दापरत्वादयुक्तमिति चेन्न । अ- १ मु. उ. २. २. ८. २. छा. उ. ६. १४. २. २. कठो. २. ३ १५, ४. मुण्ड. उ. ३. १ ९. ५. नारा. उ. ७८. ६. नारा. उ. ३. ७. नारा. उ. ८०