भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 186, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 186

स्नातकव्रतानि ] उज्ज्वलोपेते प्रथमः प्रश्नः । १७५ सभाससमाजाश्च व्याख्याताः । तान्न सेवेत ॥ १९ ॥ समाजं चेद्गच्छेत्प्रदक्षिणीकृत्याऽपेयात् ॥ २० ॥ यद्यर्थात् समाजं गच्छेत् तं प्रदक्षिणीकृत्याऽपेयादपगच्छेत् ॥ २० ॥ नगरप्रवेशनानि च वर्जयेत् ॥ २१ ॥ बहुवचननिर्देशात् बहुकृत्वो नगरं न प्रवेष्टव्यम् । यदाकदाचिदा- दृष्टिलुके प्रवेशे न प्रायश्चित्तम् ॥ २१ ॥ प्रश्नं च न विब्रूयात् ॥ २२ ॥ विविच्य वचनं विवचनं निर्णयः । पृष्टमर्थं न विविच्य ब्रूयादिद- मित्थमिति । दुर्निरूपार्थविषयमिदम् ॥ २२ ॥ अथाऽप्युदाहरन्ति ॥ २३ ॥ अपि चाऽस्मिन्नर्थे श्लोकमुदाहरन्ति ॥ २३ ॥ मूलं तूलं वृहति दुर्विंवक्तुः प्रजां पशूनायतनं हिनस्ति । धर्मप्रह्लाद न कुमालनाय रुदन् ह मृत्युर्व्युवाच प्रश्नम् । इति ॥ २४ ॥ दुर्निरूपमर्थं सहसा निर्णीय यो दुर्विंवक्ति अन्यथा वर्णयति स दु- र्विवक्ता । तस्य दुर्विंवक्तुस्तदेव दुर्वचनमेव मूलं तूलं च वृहति । मूलं पितृध- नम् । तूलमागामिनी सम्पत् । तदुभयमपि वृहति उत्पाटयति । दन्तोष्ठ्यो वकारः। किमेतावदेव ? न, प्रजां पुत्रादिकाम् । पशून् गवादिकान् । आयतनं गृहं च हिनस्ति । अतो दुर्वचनसम्भवात् प्रश्नमात्रमेव न विब्रूयादिति। अत्रेतिहासः-कस्यचिदृषेर्धर्मप्रह्लादः कुमालनश्चेति द्वौ शिष्यावास्ताम् । तौ कदाचिदरण्यान्महान्तौ समिद्धारावाहृत्य श्रमा(१)द्ददृष्टिपूत एवाचा- र्यगृहे प्राक्षिपताम् । तयोरेकेनाऽऽक्रान्त आचार्यस्य शिशुः पुत्रो मृतः । ततः शिष्यावाहूयाऽऽचार्यः पप्रच्छ-केनायं मारित इति । तावुभावपि न मयेत्यूचतुः । तथा पतितस्य परित्यागमदुष्टस्य परिग्रहं कर्तुमश- क्नुवन्नृषिर्मृत्युमाहूय पप्रच्छ-केनाय व्यापादित इति । ततो धर्मसङ्क- टे पतितो मृत्यूरुदन्नेव प्रश्नं व्युवाच विविच्य कथितवान्। कथम् ? हे धर्मप्रह्लाद न कुमालनाय । षष्ठ्यर्थे चतुर्थी । कुमालनस्य नेदं पतनीयमिति । १. दृष्टिपथ एव इति ख. पु.