आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 197, कुल 399 में से
संदर्भ में पढ़ेंअथ द्वितीयः पटलः ॥ आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः ॥ १ ॥ आर्यास्त्रैवर्णिकाः । 'आर्याधिष्ठिता वा शूद्रा' (२.३,४) इत्युत्तरत्र दर्श- ातू । प्रयताः स्नानादिना शुद्धाः । वैश्वदेवे गृहमेधिनोभोजनार्थे पाके । 'गृहमेधिनो यदशनीयस्ये' (३-१२) ति दर्शनात् । अन्नसंस्कर्तार स्युः । अन्नं भक्ष्यभोज्यपेयादिकं तत् संस्कुर्युः । न स्वयं, नाऽपि स्त्रियः ॥ १ ॥ भाषां कासं क्षवधुमित्यभिमुखोऽन्नं वर्जयेत् ॥ २ ॥ भाषा शब्दोच्चारणम् । कासः कण्ठे घुरुघुराशब्दः । क्षवथुः क्षुतम् । एतत्त्रितयमन्नाभिमुखो न कुर्यात् । 'संस्कर्तारः स्यु'रिति बहुवचने प्र- कृते 'वर्जये'दित्येकवचन प्रत्येकमुपदेशार्थम् ॥ २ ॥ केशानङ्गं वासश्चाऽऽलभ्याऽप उपस्पृशेत् ॥ ३ ॥ केशादीनात्मीयानन्यदीयान्वा । आलभ्य स्पृष्ट्वा । अप उपस्पृशेत् । नेदं स्नानम् । किं तर्हि ? स्पर्शमात्रम् । केशालम्भे पूर्वमप्युपस्पर्शनं विहि तम् । इद तु तत्रोक्तं वैकल्पिकं शकृदाद्युपस्पर्शनं मा भूदिति ॥ ३ ॥ आर्याधिष्ठिता वा शूद्रास्संस्कर्तारः स्युः ॥ ४ ॥ त्रैवर्णिकैरधिष्ठिता वा शूद्रास्संस्कर्तार स्युः । प्रकरणादन्नस्येति गम्यते ॥४॥ तेषां स एवाऽऽचमनकल्पः ॥ ५ ॥ तेषां शूद्राणामन्नसंस्कारे ऽधिकृतानां स एवाऽऽचमनकल्पो वेदितव्यः, यस्याऽन्नं पचन्ति । यदि ब्राह्मणम्य, हृदयङ्गमाभिरद्भिः । यदि क्षत्रि- यस्य, कण्ठगाभिः । यदि वैश्यस्य, तालुगाभिः । इन्द्रियोपस्पर्शनं च भवति ॥ ५ ॥ अधिकमहरहः केशश्मश्रुलोमनखवापनम् ॥ ६ ॥ शूद्राः पचन्तः प्रत्यहं केशादि वापयेयुः । इदमेषामधिकमार्येभ्यः ॥६॥ उदकोपस्पर्शनं च सह वाससा ॥ ७ ॥ सहैव वाससा स्नानं कुर्युः । आर्याणां तु परिहितं वासो निधाय कौ पीनाच्छादनमात्रेणाऽपि स्नानं भवति । शूद्राणामपि पाकादन्यत्र । त-