भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 20, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 20

व्रात्यसंस्कारः] उज्ज्वलोपेते प्रथमः प्रश्नः । ९ यस्य यः सावित्र्याः काल उक्तः तदतिक्रमे त्रैविद्यकं त्र्यवयवा वि- द्या तामधीयते ये ते त्रैविद्याः, तेषामिदं त्रैविद्यकम् । (१)'गोत्रचरणाद्वुञ्' । 'चरणाद्धर्माम्नाययोरि'ति वुञ् । एवम्भूतं ब्रह्मचर्यं, अग्निपरिचर्यामध्य- यनं गुरुशुश्रूषामिति परिहाप्य, सकल ब्रह्मचारिधर्मं चरेत् । कियन्तं कालम् ? ऋतुं, 'कालाध्वनो'रिति द्वितीया । ऋतुमिति वचनादृत्वारम्भे प्रायश्चित्तारम्भमिच्छन्ति ॥ २८ ॥ अथोपनयनम् ॥ २९ ॥ एवं चरितव्रत उपनेतव्यः ॥ २९ ॥ ततस्संवत्सरमुदकोपस्पर्शनम् ॥ ३० ॥ ततः उपनयनादारभ्य सम्वत्सरमुदकोपस्पर्शनं स्नानं कर्तव्यम् । शक्तस्य त्रिषवण स्नानम्(२) अशक्तस्य यथाशक्ति ॥ ३० ॥ अथाऽध्याप्यः॥ ३१ ॥ एवं चरितव्रतः पश्चादध्याप्य ॥ ३१ ॥ अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुताः ॥ ३२ ॥ यस्य माणवकस्य पिता पितामहश्चानुपेतौ स्यातां स्वयं च, ते तथाविधास्स माणवका ब्रह्महसंस्तुताः अब्राह्मण इत्येवं कीर्तिताः ब्रह्मवादिभिः । अतस्मि- न् तच्छब्दयोगस्तद्धर्मप्राप्त्यर्थः । एवं च (३)'श्मशानवच्छूद्रपतिता'त्वि- त्यध्ययननिषेधप्रकरणे वक्ष्यते । ततश्च ब्रह्म यथा ब्रह्महसमीपे नाध्ये यमेवमेषामपीति ॥ ३२ ॥ तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत् ॥ ३३ ॥ तेषामेतेषामभ्यागमनमाभिमुख्येन गमनम्, मातापितृपुत्रदारशरीरर- क्षणार्थमपि वर्जयेत् । यद्यपि भिक्षा सर्वतः प्रतिग्राह्येति वक्ष्यते भोजनमु द्यतमपि वर्जयेत् (४)'अपि दुष्कृतकारिण' इति सत्यपि वचने । विवाहं च वर्जयेत् यद्यपि (५)'स्त्रीरत्नं दुष्कुलादपी'ति मानवस्मरणम् ॥ ३३ ॥ तेषामिच्छतां प्रायश्चित्तम् ॥ ३४ ॥ १ पा० सू० ४३. १२६ २. अन्यस्य' क. ख. पु ३. आप० ध० १ ९. ९. ४. आप० ध० १ १९.१३. ५ मनु० स्मृ० २. २३८. आप० ध० २