आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 206, कुल 399 में से
संदर्भ में पढ़ेंगृहस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । १९५ अनुगमनं च पश्चात् ॥ २७ ॥ अनुगमनं च पृष्ठतः कर्तव्यं यावदध्ययनम् । पश्चाद्ग्रहणं लज्जा- दिना कियत्यपि पार्श्वे गतिर्मा भूदिति । सर्वशुश्रूषाप्रसङ्गे नियमः- ब्राह्मणस्याऽनुगमनमेव शुश्रूषेति । तथा च गौतमः-(१)'अनुगमनं शुश्रूषे'ति ॥ २७ ॥ तत ऊर्ध्वं ब्राह्मण एवाऽग्रे गतौ स्यात् ॥ २८ ॥ ततोऽध्ययनादूर्ध्वं समाप्तेऽध्ययने ब्राह्मण एवाग्रतो गच्छेत् ॥ २८ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तावुज्ज्वलायां द्वितीयप्रश्ने चतुर्थी कण्डिका ॥४॥
सर्वविद्यानामप्युपनिषदामुपाकृत्याऽनध्ययनं तदहः ॥१॥ कर्मणि षष्ठी । सर्वविद्या अङ्गविद्या अप्युपनिषद उपाकृत्याध्येतुमारभ्य तदहरनध्ययनं तस्मिन्नहन्यध्ययनं न कर्तव्यम् । उपनिषद्ग्रहणं प्राधान्य- ख्यापनार्थम् । ब्राह्मणा आयाता, वसिष्ठोऽप्यायात इतिवत् ॥ १ ॥ अधीत्य चाऽविप्रक्रमणं सद्यः ॥ २ ॥ अधीत्य(२) 'वेदमधीत्य स्नास्य' न्नित्यवसरे आचार्यसकाशात् सद्यो ऽविप्रक्रमणं न कर्तव्यं नाऽपगन्तव्यम् । प्रायेण मकारात्परमिकारमधीयते । तत्राप्येष एवार्थः । इकारस्तु छान्दसोऽपपाठो वा(३) ॥ २ ॥ यदि त्वरेत गुरोः समीक्षायां स्वाध्यायमधीत्य कामं गच्छेद्वेवमुभयोः शिवं भवति ॥ ३ ॥ यदि कार्यवशात् गन्तुं त्वरेत तदा गुरोराचार्यस्य समीक्षायां सन्दर्शने संश्रये स्वाध्यायं प्रश्नावमधीत्य यथाकामं गच्छेत् । एव कृते उभयोः शिष्या- चार्ययोः शिवं भवतीति ॥ ३ ॥ समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखोऽभ्यागम्य त- स्योपसङ्गृह्य न बीभत्समान उदकमुपस्पृशेत् पुरस्कृ- त्योपस्थाप्य यथोपदेशं पूजयेत् ॥ ४ ॥ १. गौ. ध. ७. २. २. आप. गृ. १२. १. ३. एतदनन्तरं 'उपाकरणात् परमित्यन्ये' इति क. पुस्तकेऽधिकः पाठः ।