आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 245, कुल 399 में से
संदर्भ में पढ़ें२३४ आपस्तम्बधर्मसूत्रे [(प.६)क.१४. इतरेभ्यो गृह्णीयादिति विभागादूर्ध्वं पित्रोर्जीवनाभावे पुत्रभागेभ्यो ग्राह्यमित्युक्तं भवति । इति जीवद्विभागः ॥ १ ॥ अथ मृते कुटुम्बिनि तद्धनस्य गतिमाह- पुत्राभावे यः प्रत्यासन्नः सपिण्डः ॥ २ ॥ 'पुत्राभावे' इति वचनात् सत्सु पुत्रेषु त एव गृह्णीयुरविशेषात्स- मम् । तत्र नारदीये विशेषः- (१)'यच्छिष्टं प्रीतिदायेभ्यो दत्त्वर्णं पैतृकं च यत् । भ्रातृभिस्तद्विभक्तव्यमृणी स्यादन्यथा पिता ॥' इति ॥ कात्यायनस्तु- (२)'भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थमृणं कृतम् । विभागकाले देयं तद्रिक्थिभिस्सर्वमेव तु ॥ इति ॥ अत्र याज्ञवल्क्यः-- (३)'पितुरूर्ध्वं विभजतां माताऽप्यंशं समं हरे' दिति । तदत्र नोक्तं पुत्रैरेव सह वृत्तिरस्या इति । तथा च मनुः- (४)'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥' इति । एवं मातुरप्यभावे तद्धनं भर्तृकुललब्धं स्वयमर्जितं च तत्पुत्रा अ प्रत्ताश्च दुहितरस्समं गृह्णीयुः । (५)स्त्रीधनं तदपत्यानां दुहिता च तदंशिनी । अप्रत्ता चेत्सम्मूढा तु लभते (६)मानमात्रकम् ॥इति बृहस्पतिः। पितृकुललब्धं चाऽप्रत्ता एव दुहितरः । (७)मातुस्तु यौतकं यत्स्यात् कुमारीभाग एव सः ।' इति मनुः । अथाऽप्रत्ता दुहितरः पुत्राश्च जननी तदा । (८)जनन्यां संस्थितायां तु समं सर्वे सहोदराः ॥ भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः । इति मानवमेव । १ ना. स्मृ. १३ ३२. २ कात्यायनीयस्मृतौ नास्ति. ३. या स्मृ २.१२३. ४. म.स्मृ ९. ३. बौ. ध. २. २. ४६. ५. मुद्रितबृहस्पतिस्मृतौ नेदं वचनमुपलभ्यते । परन्तु 'जनन्यां संस्थितायां' ( ९ १९२.) इतिश्लोकव्याख्यानावसरे कुल्लूकभट्टेनेदं वचन बृहस्पतिवचनत्वेनैवोदाहृतम् । ६. सा न मातृकम् , इति ड. पु ७. म. स्मृ. ९. १३१ ८. म. स्मृ. ९. १९२.