आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 258, कुल 399 में से
संदर्भ में पढ़ेंअहविष्यहोमः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २४७
सप्तम्यर्थे तसिल् । देशः प्रयागादिः । कालः सूर्यग्रहणादिः । (१)शौ- चं कृच्छ्रादिपरिसमाप्तिः। सम्यक् समीचीनः प्रतिग्रहीता 'तुल्यगुणेषु वयो- वृद्धश्श्रेया'नित्यादि । एतेषु दानानि देयान्यवश्यं प्रतिपादयति दद्यादिति१२ यस्याऽग्नौ न क्रियते यस्य चाऽग्रं न दीयते न तद्भोक्तव्यम् ॥ १३ ॥ यस्याऽन्नस्यैकदेशः अग्नौ न क्रियते न हूयते (२)यस्माच्चोद्धृत्याऽग्रं न दीयते न तद्भोक्तव्यम् ॥ १३ ॥ न क्षारलवणहोमो विद्यते ॥ १४ ॥ यत् भक्ष्यमाणं पश्यतो लालोत्पद्यते तत् क्षार गुड(३)मरीचिलिकु चादि । (४)क्षारलवणसंसृष्टं न होतव्यम् ॥ १४ ॥ तथाऽवरात्रसंसृष्टस्य च ॥ १५ ॥ अवरात्रं कुलुत्थादि । तत्संसृष्टस्याप्यन्नस्य होमो न विद्यते ॥ १५ ॥ अथ यस्यैवंविधमेव भोज्यमुपस्थितं (५)तस्य कथं होमः ? तत्राह - अहविष्यस्य होम उदीचीनमुष्णं भस्माऽपोह्य तस्मि ञ्जुहुयात्तद्भुतमहुतं चाग्नौ भवति ॥ १६ ॥ औपासनात् पचनाद्वा ऽग्नेरुदीचीनमुष्णं भस्माऽपोह्य तस्मिन् भस्मनि जुहुयात् वैश्वदेवमन्त्रैः । एषोऽहविष्यस्य होमः । तदेवं क्रियमाणं हुतं च भवति हवनार्थनिर्वृत्तेः । अहुतं चाऽग्नौ भवति । भस्ममात्रत्वादिति । अत्र बोधायनः— (६)अथ यद्येतदेवाग्नं स्यादुत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेषु जु- हुया'दिति । (७)अपर आह—यान्यहविष्याणि व्यञ्जनान्यहरहर्भोज्यानि तेषा- मेष संस्कारस्सकृच्च होमोऽमन्त्रक इति ॥ १६ ॥ उत्तरे द्वे सूत्रे स्पष्टे— न स्त्री जुहुयात् ॥ १७ ॥
१. शौचं कृच्छ्रादि इति ङ. च. पु. २. 'यस्य ब्राह्मणस्यान्नं न दीयत' इति क.च. पुस्तकोराधिकम् । ३. 'गुडसुधालिकुचादि' इति ङ. पु. ४. क्षारलवणं, कृत्रिमलवणमिति कुल्लूकः । तिलमुद्गास्ते शैब्यं सस्ये गोधूमकोद्र- वौ । धान्यक देवधान्यं च शमीधान्यं तथैक्षवम् । स्विन्नधान्यं तथा पण्यमूलं क्षारगणस्मृतः ॥ इति निर्णयसिन्धौ । ५. तस्य कथ भोजनम् ? इति घ.पु. ६. बौधा. गृ. ७. अपरे मन्यन्ते 'इति. घ. पु.