आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 264, कुल 399 में से
संदर्भ में पढ़ेंश्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५३ खड्गोपस्तरणे खड्गमांसेनाऽऽनन्त्यं कालम् ॥ १ ॥ खड्गचर्मोपस्तरणेष्यासनेषूपविष्टेभ्यो ब्राह्मणेभ्यो दत्तेन खड्गमां- सेनानन्तं कालं प्रीतिर्भवति । आनन्त्यमिति पाठे स्वार्थे ष्यञ् ॥ १ ॥ तथा शतबलेर्मत्स्यस्य मांसेन ॥ २ ॥ शतबलिर्बहुशल्यको रोहिताख्यः ॥ २ ॥ वार्ध्रीणसस्य च ॥ ३ ॥ व्याख्यातो वार्ध्रीणसः । तस्य मांसेनाऽऽनन्त्यं कालं प्रीतिर्भवति ॥ ३ ॥ प्रयतः प्रसन्नमनास्सृष्टो भोजयेद्ब्राह्मणान् ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसम्बन्धान् ॥ ४ ॥ प्रयतः स्नानाचमनादिना शुद्धः । प्रसन्नमनाः अव्याकुलमनाः । सृष्टः उत्सा- हवान् । (१)'सृष्टश्चेद्व्राह्मणवधे हत्वाऽपी'तिदर्शनात् । (२)'वृत्तिसर्गताय- नेषु क्रमः' इत्यत्र च सर्गे उत्साहः । एवम्भूतो ब्राह्मणान् भोजयेत् । कीदृ- शान्? ब्रह्मविद आत्मविदः । योन्यादिभिरसम्बन्धान् योनिसम्बन्धा मातु- लादयः । गोत्रसम्बन्धा सगोत्राः । मन्त्रसम्बन्धा ऋत्विजा याज्याश्च । अन्ते- वासिसम्बन्धाश्शिष्या आचार्याश्च ॥ ४ ॥ गुणहान्यां तु परेषां समुदेतः सोदर्योऽपि भोजयितव्यः ॥ यदि परे योनिगोत्रादिभिरसम्बन्धा वृत्तादिगुणहीना एव ल- भ्यन्ते, तदा समुदेतो विद्यावृत्तादिभिर्युक्तः सोदर्योऽपि भोजयितव्यः किमुत मातुलादय इत्यपिशब्दस्याऽर्थः ॥ ५ ॥ एतेनाऽन्तेवासिनो व्याख्याताः ॥ ६ ॥ एतेन सोदर्येण अन्तेवासिनः बहुवचननिर्देशात् पूर्वत्र निर्दिष्टा योन्या- दिभिस्सम्बन्धास्सर्व एव व्याख्याता.—अन्येषामभावे समुदेता भोजयि- तव्या इति । अत्र मनुः— (३)'एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्तु विज्ञेयः सदा सद्भिरनुष्ठितः ॥ १. गौ ध. २२. ११. २. पा. सू. १ ३. ३८. ३. म. स्मृ. ३. १४७,