आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 266, कुल 399 में से
संदर्भ में पढ़ेंश्राद्धकल्पः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २६५ तृतीयमामन्त्रणम् ॥ १३ ॥ आमन्त्रणमाह्वानं भोजनकाले सिद्धमागम्यतामिति तत्तृतीयं भवति॥१३॥ त्रिःप्रायमेके श्राद्धमुपदिशन्ति ॥ १४ ॥ न केवलं निवेदनमेव त्रिर्भवति । किं तर्हि यच्च यावच्च श्राद्धे त त्सर्वं त्रिरावर्त्यमित्येके मन्यन्ते । अत्र पक्षे होमभोजनपिण्डानामध्य्आ वृत्तिस्तस्मिन्नेवापराह्णे ॥ १४ ॥ यथाप्रथममेवं द्वितीयं तृतीयं च ॥ १५ ॥ येन प्रकारेण प्रथमश्राद्धं तथैव द्वितीयं तृतीयं च कर्तव्यम् ॥ १५ ॥ सर्वेषु वृत्तेषु सर्वतस्समवदाय शेषस्य ग्रास वराध्यं प्राश्नीयाद्यथोक्तम् ॥ १६ ॥ सर्वेषु श्राद्धेषु त्रिष्वपि वृत्तेषु समाप्तेषु सर्वतस्त्रयाणां श्राद्धानां य ओद- नशेषस्ततस्समवदाय ग्रासवराध्यं प्राश्नीयात् यथोक्तं गृह्ये(१) 'उत्तरेण यजुषा शेषस्य ग्रासवराध्यं प्राश्नीया'दिति । तत्र प्रयोगः(२)पूर्वेद्युर्निवेदनम् । तद्वत् परेद्युः प्रातर्भोजनकाले आमन्त्रणं-सिद्धमागम्यतामिति । ततो होमादिपिण्डनिधानान्तमेकैकमपवृज्य ततः सर्वतस्समवदाय ग्रासाव- राध्यंस्य(३)'प्राणे निविष्टे'ति प्राशनमिति ॥ १६ ॥ उदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ॥१७॥ प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा । विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ॥' इति वैयाकरणाः । तस्याः शरावत्या उदक्तीरवर्तिन उदीच्याः । तेषां वृत्तिराचार आसनेषूपविष्टानां ब्राह्मणानां हस्तेषूदपात्रादर्घ्य पात्रादादायाऽर्घ्यदानमिति । (४)पितरिदं तेऽर्घ्यम्, पितामहेदं तेऽर्घ्यं, प्रपितामहेदं तेऽर्घ्यमिति मन्त्रा आश्वलायनके(५) । यद्यप्युदी १. आ. प. गृ. २१. ९. २. पूर्वेद्युर्नवावरेभ्यो निवेदन, इति च. पु. । ३. 'प्राणे निविष्टोऽमृतं जुहोमि ब्रह्मणि म आत्माऽमृतत्वाय' इति मन्त्रः । ४. 'अमुष्मै स्वधा नम इति गृह्योक्तेन प्रकारेणार्घ्यं दद्यात्' ततस्तिलान् श्राद्धभूमौ विकिरेत्, इति अधिक पाठो घ. ङ पुस्तकयो. । ५. आश्व. गृ. ४ ८ ३. ।