आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 268, कुल 399 में से
संदर्भ में पढ़ेंश्राद्धीयब्राह्मणः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २५७ (१)एते श्विव्यादयः श्राद्धे भुञ्जानाः पङ्क्ति दूषयन्ति । अतस्ते न भोज्या इति ॥ २१ ॥ त्रिमधुस्त्रिसुपर्णस्त्रिणाचिकेतश्चतुर्मेधः पञ्चाग्निर्ज्ये- ष्ठसामिको वेदाध्यायनूचानपुत्रः श्रोत्रिय इत्येते श्राद्धे भुञ्जानाः पङ्क्तिपावना भवन्ति ॥२२॥ 'मधुवाता ऋतायत' इत्येष तृचः(२)त्रिमधुः । तत्र हि प्रत्यृचं त्रयो मधुशब्दाः । इह तु तदध्यायी पुरुषस्त्रिमधुः । त्रिसुपर्णं (३) 'चतुष्कपर्दा युवति सुपेशा' इत्यादिकस्तृचो बाह्वृचः । अन्ये तु तैत्तिरीयके (४) 'ब्रह्म मेतु मा'मित्यादयः त्रयोऽनुवाका इत्याहुः । तत्र हि 'य इमं त्रिसुपर्णम- याचितं ब्राह्मणाय दद्यादि'ति श्रूयते 'आसहस्रात् पङ्क्ति पुनन्ती'ति च । पूर्ववत्पुरुषे वृत्तिः । त्रिणाचिकेत. नाचिकेताऽग्निर्बह्वीषु शाखासु विधीयते (५)तैत्तिरीयके, कठवल्लीषु, शतपथे च । तं यो वेद मन्त्रब्राह्मणेन सह स त्रिणाचिकेत (६)नाचिकेताग्निश्श्वेतव्येत्यन्ये । विरजानुवाकाध्यायित्यन्ये, (७)- प्राणापानेत्यादि । चतुर्मेधः अश्वमेधः, सर्वमेधः, पुरुषमेधः, पितृमेध, इति चत्वारो मेधाः । तदध्यायी चतुर्मेधः । चतुर्णां यज्ञानामाहर्तेत्यन्ये । पञ्चाग्निः १. इतः पूर्वं वृषलीपतिः वृषली शूद्रकन्या अदत्ता रजस्वला च वृषली तस्याः पतिः निषिद्धद्रव्यविक्रेता तिलकम्बलरसविक्रेता । राजभृत्य. राज्ञस्सकाशात् भृतिं वेतनं गृह्णाति स राजभृत्य. ॥ ब्राह्मणायमेवोत्पन्नस्सन् यस्योत्पादयिता सन्दिग्धः स तदुत्पन्न एवेति । शिपिविष्टादयः श्राद्धे भुजाना ,... इति पाठो घ. पुस्तके । २. मधु वाता ऋतायते, मधु नक्तमुतोषसि, मधुमान्नो वनस्पति.(तै. सं. ४. २. ९.) इति तिस्र ऋचः त्रिमधु. । ३ चतुष्कपर्दा युवतिः, एकस्सुपर्णस्ससमुद्रम्, सुपर्णं विप्राः, इति तिस्र. ऋचः (ऋ. सं. ८. ६. १६.) ४ ब्रह्ममेतु माम्, ब्रह्ममेधया, ब्रह्ममेधवा, तै. आ. ( महानारायणोपनिषदि. ) ( ३८, ३९, ४०.) इति त्रयोऽनुवाका त्रिसुपर्णः । ५. तैत्तिरीयके. ब्राह्मणे तृतीयाष्टके एकादशे प्रपाठक आम्नातः । कठोपनिषदि प्रथ- मादितिष्रु वल्लीषु, शतपथे । ६. नाचिकेताग्निस्त्रैश्चेतेत्यन्ये, इति. च. पु. ७. प्राणापानव्योनादानसमाना मे शुध्यन्तां ज्योतिरह विरजा विपाप्मा भूयासं स्वाहा. (तै. आ. ( महाना. ) ९५ ) इत्यादिः विरजानुवाकः । आप० ध० ३३