आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 273, कुल 399 में से
संदर्भ में पढ़ें२६२ आपस्तम्बधर्मसूत्रे [ (प.८.) क. १९. तस्यैवं कृतस्य कर्मणो महिम्ना उभयान् पश्यति, कांश्च कांश्च ब्राह्मणान्भु- ञ्जानान् तस्मिन्नेव च माने पितॄन् यथा। ब्राह्मणान् भुञ्जानान् प्रत्यक्षेण पश्यति तथा माने समागतान् पितॄनपि प्रत्यक्षेण पश्यतीत्युपदि- शन्ति धर्मज्ञाः ॥ १७ ॥ कृताकृतमत ऊर्ध्वम् ॥ १८ ॥ अत ऊर्ध्वं मासिश्राद्धं क्रियताम्, मा वा कारि । अकरणेऽपि न प्रत्यवाय इति ॥ १८ ॥ श्राद्धेन तृप्तिं निवेदयन्ते पितरः ॥ १९ ॥ हि यस्मादन्त्येऽहनि यद्दर्शनमुपगच्छन्ति, तच्छ्राद्धेन तृप्तिं हि वेदयन्ते ज्ञापयन्ति कर्तारम् । तस्मात् तत् कृताकृतमिति ॥ १९ ॥ अथ पुष्टिकामस्य प्रयोगस्तिष्येणेत्यादिरुच्छिष्टं दद्युरित्यन्त एकः। तिष्येण पुष्टिकामः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रे द्वितीयप्रश्नेऽष्टादशी कण्डिका ॥ १८ ॥ गौरसर्षपाणां चूर्णानि कारयित्वा तैः पाणिपादं प्र- क्षाल्य मुखं कर्णौ प्राश्य च यद्वातो नाऽतिवाति तदा- सनोऽजिनं बस्तस्य प्रथमः कल्पो वाग्यतो दक्षिणा- मुखो भुञ्जीत ॥ १ ॥ पुष्टिकामः पुरुषो वक्ष्यमाणं प्रयोगं कुर्यात् । तिष्येण(१) 'नक्षत्रे च लुपि'त्यधिकरणे तृतीया । तिष्ये नक्षत्रे गौराणां सर्षपाणां चूर्णानि कर्म- करैः कारयेत् । कारयित्वा तच्चूर्णैः पाणी पादौ प्रक्षाल्य मुखं कर्णौ च प्रक्षा- ल्य चूर्णशेषं प्राश्नीयात् । प्रास्येदिति पाठे प्रास्येत् विकिरेत् । एतावत् प्रतितिष्यं विशेषकृत्यम् । परं तु प्रत्यहं कर्तव्यम् । प्राश्य च यदासनं वा- तो नातिवाति अधो नातीत्य वाति तदासनस्तादृशासनः भुञ्जीतेति व- क्ष्यमाणेन सम्बन्धः । तत्र बस्ताजिनमासनं स्यादिति मुख्य कल्पः । वाग्यतो दक्षिणां दिशमभिमुखो भुञ्जीत ॥ १ ॥ अनायुष्यं त्वेवंमुखस्य भोजनं मातुरित्युपादिशन्ति ॥२॥ १. पा. सू. २. ३.४५.