आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 288, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचर्यादिप्रशंसा ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७७ भूयांसं वा नियममिच्छन्नन्वहमेव पात्रेण सायंप्रातरर्थमाहरेत् ॥ १ ॥ इदमेकाकिनो वानप्रस्थस्य । भूयांसं नियममिच्छन्न सस्यं सञ्चिनुयात् । किं तर्हि ? अन्वहमेव पात्रेण येनकेनचित् सायंप्रातश्चाऽर्थमशनीयमात्रमाहरेत् वानप्रस्थेभ्य एव ॥ १ ॥ एवं कियन्तचित्कालं वर्तयित्वा— ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेदन्ततः प्रवृत्तानि ततोऽपो वायुमाकाशमित्यभिनि- श्रयेत् । तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥ २ ॥ सर्वं गतम् ॥ २ ॥ निरूपिता आश्रमाः । अथेदानों पक्षप्रतिपक्षरूपेण तेषामेव प्राधा- न्यमप्राधान्यं च निरूप्यते— अथ पुराणे श्लोकावुदाहरन्ति— अष्टाशीतिसहस्राणि ये प्रजामीषिर ऋषयः । दक्षिणेनाऽर्यम्णः पन्थानं ते श्मशानानि भेजिरे ॥ ३ ॥ अष्टाशीतिसहस्राणि ये गृहस्था ऋषयः प्रजामीषिरे प्रजातिमभ्यनन्दन् ते अर्यम्णो यो दक्षिणेन पन्थाः दक्षिणायनमार्गः तं प्राप्य छान्दोग्योक्तेन (१)धूमादिमार्गेण गत्वा पुनरपि सम्भूय श्मशानानि भेजिरे मरणं प्रतिपेदिरे । जायस्व म्रियस्वेत्याजीवं जीवभावमापेदिर इति गृहस्थानां निन्दा ॥३॥ अष्टाशीतिसहस्राणि ये प्रजां नेषिर ऋषयः । उत्तरे- णाऽर्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ॥ ४॥ ये(२)तु प्रजातिं नाभ्यनन्दन् ते उत्तरायणमार्गेण (३) अर्चिरादिमार्गेण गत्वा अमृतत्वं विभक्तिव्यत्ययः, अमृतत्वाय कल्पते वचनव्यत्ययः कल्पन्ते समर्थास्सम्पद्यन्ते ॥ ४ ॥ इत्यूर्ध्वरेतसां प्रशंसा ॥ ५ ॥
१. छा. उ ५ १०. ३–६ २. प्रजा, इति च. पु ३ छा. उ. ५. १०. १,२