भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 292, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 292

गार्हस्थ्यश्रैष्ठ्यम् ] उज्ज्वलोपेतं द्वितीयः प्रश्नः । २८१ अथाऽपि प्रजापतेर्वचनम् ॥ ७॥ अपि च प्रजापतेरपि वाक्यमस्मिन्नर्थे भवति । गार्हस्थ्यमेव वरि- ष्ठमिति ॥ ७ ॥ त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञ- मनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशं- सन्निति ॥ ८ ॥ त्रयीं विद्यां त्रयाणां वेदानामध्ययनम् । ब्रह्मचर्यमष्टाचत्वारिंशदादिकम् । प्रजातिं प्रजोत्पादनम् । श्रद्धामास्तिक्यम् । तप उपवासादि । यज्ञमग्निहो- त्रादिकं सोमयागान्तम् । अनुप्रदानं अन्तर्वेदि बहिर्वेदि च दानम् । य एतानि कर्माणि कुर्वते, तैरित् तैरेव सह वयं स्मः त एवाऽस्माकं सहायाः । अन्यत्तु ऊर्ध्वरेतसामाश्रमादिकं प्रशंसन् पुरुषो रजः पांसुर्भूत्वा ध्वंसते नश्यति । इतिशब्दो वचनसमाप्त्यर्थः । यथैवं तर्हि शिष्टेषु वर्तमानाः पुत्राः पूर्वेषां कीर्तिं स्वर्गे च वर्धयन्ति, तथा प्रतिषिद्धेषु वर्तमाना अकीर्तिं नरकं च वर्धयेयुः ॥ ८ ॥ तत्राऽऽह-- तत्र ये पापकृतस्त एव ध्वंसन्ते यथा पर्णं वनस्पतेर्न परान् हिंसन्ति ॥ ९ ॥ तत्र प्रजासन्ताने ये पापस्य कर्तारः, त एव ध्वंसन्ते न परान् पित्रादीन् हिंसन्ति । यथा यदेव पर्णं वनस्पतेः कीटादिभिर्दूषितं तदेव पतति, न वनस्पतिं शाखान्तरं वा पातयति तद्वत् ॥ ९ ॥ एतदेवोपपादयति-- नाऽस्याऽस्मिँल्लोके कर्मभिस्सम्बन्धो विद्यते तथा परस्मिन् कर्मफलैः ॥ १० ॥ अस्येति सामान्यापेक्षमेकवचनम् । अस्य पित्रादेः पूर्वपुरुषस्य अस्मिन् लोके पुत्रकृतैः कर्मभिः सम्बन्धो न विद्यते । दृष्टान्तोऽयम् । यथा पुत्रकृतेषु कर्मसु पित्रादेः कर्तृत्वं नाऽस्ति, तथा परस्मिन्नपि लोके कर्मफलैरपि सम्बन्धो नाऽस्तीत्यर्थः ॥ १० ॥ तदेतेन वेदितव्यम् ॥ ११ ॥ आप० ध० ३६

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद) · पृष्ठ 292, कुल 399 में से · BharatKosha