आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 37, कुल 399 में से
संदर्भ में पढ़ें२६ आपस्तम्बधर्मसूत्रे [ (प्र.१.) क.४. मिदाधाने विधीयते सर्वचरणार्थम् । सायं प्रातरित्यादिकान्विशेषा- न् वक्ष्यामीति च ॥ १६ ॥ सायमेवाऽग्निपूजेत्येके ॥ १७ ॥ एके आचार्यास्सायमेवाग्निपूजा कार्या, न प्रातरिति मन्यन्ते ॥ १७ ॥ समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या ॥ १८ ॥ समिदाधाने समिद्धमग्निं पाणिनेव परिसमूहेत्, न समूहन्या । समूहनी स- म्मार्जनी दर्भनिर्मिता वेदाकृतिः, आचारात् ॥ १८ ॥ प्राक्तु याथाकामी ॥ १९ ॥ प्राक्समिदाधानात् परिसमूहने याथाकामी भवति । यथाकामस्य भावो याथाकामी । ष्यञ्, षित्वादीकारः ॥ १९ ॥ नाऽग्न्युदकशेषेण वृथाकर्माणि कुर्वीताऽऽचामेद्वा ॥२०॥ अग्निपरिचर्यायां परिसमूहने परिषेचने च यदुपयुक्तमुदकं, तच्छेषेण वृथाकर्माणि अदृष्टप्रयोजनरहितानि पादप्रक्षालनादीनि न कुर्वीत। नाऽप्याचामेत् । अवृथाकर्मत्वादस्य पुनःप्रतिषेधः ॥ २० ॥ पाणिसंक्षुब्धेनोदकेनैकपाण्यावर्जितेन च नाऽऽचामेत् ॥ २१ ॥ पाणिसंक्षुब्धं (१)पाणिना सङ्क्षोभित तेनोदकेन नाऽऽचामेत् । इदं तटाकादिषु स्वयमाचमने । यदा पर आचामयति, तदैकेन पाणिना यदावर्जितं तेन नाऽऽचामेत् । किं तु उभाभ्यां हस्ताभ्यां करकादि गृहीत्वा यदावर्जि- तमुदकं, तेनैवाऽऽचामेत् । एवं च स्वयं वामहस्तावर्जितेनापि नाचामेत् । (अलाबुपात्रेण नालिकेरेण वैणवेन चर्ममयेन ताम्रमयेन वा पात्रेण स्वयमाचमनमाचरन्ति शिष्टाः) ॥ २१ ॥ स्वप्नं च वर्जयेत् ॥ २२ ॥ पूर्वं 'मदिवास्वापी' (१. २ २८)त्यनेन (२)दिवास्वापः प्रतिषिद्धः । अनेन रात्रावपि यावदाचार्यो न स्वपिति, तावन्तं कालं स्वापः प्रतिषि- १. कुम्भादिगतमित्यधिकं घ. पु. ( ) एतच्चिन्हान्तर्गतो भागः ख० पुस्तके नास्ति । २. दिवास्वापप्रतिषेधः इति, क. पु.