आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 47, कुल 399 में से
संदर्भ में पढ़ें३६ आपस्तम्बधर्मसूत्रे [ (प.२.)क.६. यदा त्वाचार्यस्तिष्ठन् ब्रूते तदा तमनूत्थाय प्रतिब्रूयात् । उत्तरे द्वे सूत्रे स्पष्टार्थे ॥ ७ ॥ गच्छन्तमनुगच्छेत् ॥ ८ ॥ धावन्तमनुधावेत् ॥ ९ ॥ न सोपानद्वेष्टितशिरा अवहितपाणिर्वासीदेत् ॥ १० ॥ उत्तरोपानत्प्रतिषेधा'न सोपान'दित्यनुवादः 'अध्वापन्नस्त्वि'ति प्रतिप्रसोतुम् । आचार्यं न सोपानत्क आसीदेत् । नापि वेष्टितशिराः । अवहितपाणि. दात्रादिहस्तः एवम्भूतोऽपि नासीदेत् ॥ ८-१० ॥ अध्वापन्नस्तु कर्मयुक्तो वाऽऽसीदेत् ॥ ११ ॥ अध्वानं प्राप्तोऽध्वापन्नः कर्मणि दात्रादिसाध्ये प्रवृत्तः कर्मयुक्तः एवं- भूतस्तु सोपानत्कोऽप्यासीदेत् ॥ ११ ॥ न चेदुपसीदेत् ॥ १२ ॥ (१) न चेदाचार्यस्समीपे, उपसीदेत् उपविशेत् । यदि तूपविशेदध्वा- पन्नः कर्मयुक्तो वा तदोपानत्प्रभृतीनि विहायोपविशेत् ॥ १२ ॥ देवमिवाचार्यमुपासीताऽविकथयन्नविमना वाचं शुश्रूषमाणोऽस्य ॥ १३ ॥ यो यं देवं भजते स तद्भावनया तमिवाऽऽचार्यमुपासीत । अविकथयन् (२)व्यर्थां कथामकुर्वन् । अविमनाः अविक्षिप्तमनाः । अस्याऽऽचार्यस्य वाचं शुश्रूषमाणः ॥ १३ ॥ अनुपस्थकृतः ॥ १४ ॥ (३)उपस्थकरणं प्रसिद्धम् । तत्कृत्वा नोपासीत ॥ १४ ॥ अनुवाति(४) वाते वीतः ॥ १५ ॥ वाते अनुवाति सति वीतः विपर्ययेणेतः उपासीत । प्रतिवातं तु वक्ष्यमा- णेन प्रतिषिध्यते । मनुरप्याह- (५)'प्रतिवातेऽनुवाते च नासीत गुरुणा सहे'ति ॥ १५ ॥ १. न चेदाचार्यसमीपे उपसीदेत् उपविशेत् इति ख, पु. २. व्यर्था कथा विकथा तामकुर्वन् इति. ख. पु. ३. आकुञ्चितस्य सव्यजानुनउपरिदक्षिणं पादं प्रक्षिप्योपवेशनमुपस्थकरणम् । ४. 'वाते' इति नास्ति ख. पु. ५. मनु. स्मृ. २.२०३.