भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 49, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 49

३८ आपस्तम्बधर्मसूत्रे [ (प्र. २.) क. ६. बहवस्तु शिष्या यथावकाशमुपसीदेयुः ॥ २५ ॥ तिष्ठति च नाऽऽसीताऽनासनयोगविहिते ॥ २६ ॥ आसनयोग आसनकल्पना । आसनयोगेन विहितस्सम्भावित आस- नयोगविहितः । आसनयोगेनाऽसम्भाविते आचार्ये तिष्ठति सति स्वयं नाऽऽसीत ॥ २६ ॥ आसीने च न संविशेत् ॥ २७ ॥ (१)'अशयनयोगविहिते' इति पूर्वानुसारेण गम्यते । शयनयोगेना- सम्भावित आचार्ये आसीने स्वयं न संविशेत् न शयीत ॥ २७ ॥ चेष्टति च चिकीर्षंस्तच्छक्तिविषये ॥ २८ ॥ व्यत्ययेन परस्मैपदम् । आचार्ये चेष्टति सति स्वयमपि तच्चिकीर्षन् स्यात् । किमविशेषेण, ? शक्तिविषये । यद्याचार्येण क्रियमाणमात्मनश्श- क्तेर्विषयो भवति । 'चिकीर्ष' न्निति सन्प्रयोगादिच्छामेव प्रदर्शयेत् ना च्छिद्य कुर्यात् । प्रदर्शितायां त्विच्छायामाचार्यश्चेदनुजानीयात् , कु र्यात् । अशक्तिविषये तु नेच्छापि प्रदर्शयितव्या । चिकीर्षेदिति युक्तः पाठः ॥ २८ ॥ न चास्य सकाशेऽन्वक्स्थानिन उप- सङ्गृह्णीयात् ॥ २९ ॥ आचार्यव्यतिरिक्ता गुरवोऽन्वक्स्थानिन इति स्मार्त्तो व्यवहारः । आ- चार्यः श्रेष्ठो गुरूणाम् । तमपेक्ष्यान्वक्स्थानं पदमेषामिति कृत्वा । आचार्य स्य सन्निधौ अन्वक्स्थानिनं नोपसङ्गृह्णीयात् ॥ २९ ॥ गोत्रेण वा कीर्तयेत् ॥ ३० ॥ न चैनमन्वक्स्थानिनं गोत्रेण अभिजनकुलादिना वा कीर्तयेत् न स्तुवीत भार्गवोऽयं महाकुलप्रसूत इति ॥ ३० ॥ न चैनं प्रत्युत्तिष्ठेदनुत्तिष्ठेद्वा(२)पि चेत्तस्य - गुरुः स्यात् ॥ ३१ ॥ प्रत्युत्थानमप्यस्य न कर्तव्यमाचार्यस्य सकाशे । यदा पुनरसावा- १. आसनयोग इति क० पु० २. अपि चेत्यादि सूत्रान्तरं. ख. च. पु ।