भारतकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 5, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 5

श्रीगणेशाय नमः ॥ भूमिका ॥ इदमिदानीं श्रीमदापस्तम्बमहर्षिप्रणीतं धर्मसूत्रं श्रीमिश्रहरदत्तप्रणी- तया उज्ज्वलाख्यया वृत्त्या समुज्ज्वलितं मुद्रयित्वा प्रकाशं प्रापय्य प्रेक्षावतां चक्षुर्गोचरतामापाद्यते । ग्रन्थोऽयं बहुत्र बहुधा मुद्रितोऽपि एतर्हि दौर्लभ्य- मेवाऽऽसाद्य एतदधीतिबोधाचरणप्रचारकाणा छात्राणामध्यापयितॄणां च कामपि कष्टामेव दशामपादयन्नवर्तत । तदिदं दुःखं दूरीकर्तुकामेन चौखम्बासंस्कृतपुस्तकालयाधिपतिना सुरभारतीसेवनैकफलमात्मजीवितमापा- दयता श्रेष्ठिवर्येण श्रीजयकृष्णदासगुप्तमहोदयेन ग्रन्थस्याऽस्य पुनस्संस्क- रणे कृतमतीभूय एतत्संशोधनार्थमावामभ्यर्थितौ । आवाभ्यामपि तच्चिन्तितं साधु मन्वानाभ्यां कार्यमेतत्स्वीकृत्य, अध्ययनाध्यापनावशिष्टेऽल्पी- यसि काले यथामति परिशोध्य प्रकाशं नीतोऽयं ग्रन्थः । एतद्ग्रन्थसंशोधनार्थं अधोङ्कितान्यादर्शपुस्तकानि समुपयोजितानि— ( १ ) कुम्भघोणे नागराक्षरेषु मुद्रितं मदीयं पुस्तकमेकम् । ( २ ) मुम्बय्यां Dr बूलर् महाशयेन मुद्रितं विश्वविद्यालयीयं पुस्तकं द्वितीयम् । ( ३ ) अस्मन्मातुलगृहादानीतं ग्रन्थाक्षरैस्तालपत्रेषु लिखितं तृतीयम् । ( ४ ) पण्डितप्रवरश्रीविद्याधरशर्ममहोदयानां हस्तलिखितं पुस्तकं चतुर्थम् । ( ५ ) मैसूरपुरे देवनागराक्षरेषु मुद्रितं सरस्वतीभवनाल्लब्धं पुस्तकं पञ्चमम् । ( ६ ) महीशूरपुर एव तैलङ्गाक्षरेषु मुद्रितं षष्ठम् । ( ७ ) दक्षिणदेशस्थसुन्दरगिरि समाख्यग्राम (नल्लूर्) वास्तव्यानां श्रीमतां पं० कल्याणसुन्दरशास्त्रिणां ग्रन्थाक्षरैस्तालपत्रेषु लिखितं सप्तमम् । (८) श्रीमतामाचार्यध्रुवमहोदयाना पुस्तकमांग्लभाषानुवादरूपमष्टमम् ।