आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 58, कुल 399 में से
संदर्भ में पढ़ेंब्रह्मचारिधर्माः ] उज्ज्वलोपेते प्रथमः प्रश्नः । ४७ 'छत्रं यानमिति वर्जये'दिति पूर्वोक्तस्य प्रतिषेधस्यापवादः। यानं च गुर्वा- रूढमन्यद्वा ॥ १२ ॥ सभानिकषकटस्वस्तरांश्च ॥ १३ ॥ उक्तोऽध्वन्यन्वारोहेदित्येव । 'सभास्समाजांश्च' त्यस्यापवादार्थं सभाग्रहणम् । निकषो नाम कृषीवलानामुपकरणं, कृष्टं क्षेत्रं येन समीक्रि- यते, यच्च कस्मिंश्चिदारूढे(१) केनचिदाकृष्यते । तत्र गुरुणा आकृष्य- माणेऽपि तेनोकसन्नारोहेत । न त्वनौचित्यभयान्नान्वारोहेदिति । कटो वीरणनिर्मिता शय्या । तत्र गुरुणोक्तस्सन् सहाऽऽसीत । उत्सवादावेष आचारः । स्वस्तरो नाम पलालशय्या । (२) नवस्वस्तरे संविशन्ती'ति दर्शनात् । तत्रापि गुरुणोक्तस्सन् सहासनादि कुर्यात् ॥ १३ ॥ नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् ॥१४॥ गुरुणाऽनभिभाषितो गुरुं प्रति न किञ्चित् ब्रूयात् प्रियादन्यत् । प्रियं तु ब्रूयात् यथा ते पुत्रो जात इति ॥ १४ ॥ व्युपतोदव्युपजापव्यभिहासोदामन्त्रणनामधेयग्रहण- प्रेषणानीति गुरोर्वर्जयेत् ॥ १५ ॥ व्युपतोद. (३)अङ्गुल्यादिघट्टनं यदाभिमुख्यार्थं क्रियते । व्युपजापः श्रोत्रयोर्मुहुर्मुहुर्जल्पनम् । वकारश्छान्दसोऽपपाठो वा । व्यभिहासः आभिमुख्येन हसनम् । उदामन्त्रणमुच्चैस्सम्बोधनम्, यथा बधिरं प्रति । नामधेयग्रहणं दशम्यां पितृविहितस्य नाम्नो ग्रहणम्। न पूज्यनाम्नो भग- वदादेः । प्रेषणमाज्ञापनम् । एतानि गुरुविषये न कर्तव्यानि । इतिकरणा- देवंप्रकाराणामन्येषामपि प्रतिषेधः । यथाऽऽह मनुः— (४) नोदाहरेत्तस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ इति ॥ १५ ॥ आपद्यर्थं ज्ञापयेत् ॥ १६ ॥ आपदि व्युपतोदादिभिरप्यर्थमभिप्रेतं ज्ञापयेत् । असति पुरुषान्तरे (५)वचनेनापि बोधयेत्, न साक्षात्प्रेषयेत्, यथा-शूलतोदो मे भवति, १. केनचिदाकृष्यमाणे क्षेत्रं समं भवति, इति. घ. पु. २. आ.प. गृ. १९-९ ३ अङ्गुल्यादिना संघट्टनम् इति. घ. पु. ४. मनु. २-१९९ ५ वचनेनैव इति क. पु.