आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 7, कुल 399 में से
संदर्भ में पढ़ें( ३ ) ( गौ. ध. १--१५)ति सूत्रे(१) 'मूर्वा आरण्य ओषधिविशेषः, यस्याऽर- त्निप्रमाणानि पत्राणि द्व्यङ्गुलविस्ताराणि, मरल् इति द्राविडभाषायां प्रसि- द्धि'रिति, (२) 'कुण्डाशी' ( गौ. ध. (१५--१८ ) इति सूत्रे, 'किलासः त्वग्दोषः तेमल् इति द्राविडभाषाया प्रसिद्धः' इति च द्राविडीमेव प्रसिद्धिमु- पाददाना इमे आत्मनो द्राविडेदेशनिवासित्व द्राविडभाषाभाषित्त्वञ्च स्पष्टमे- वाऽवगमयन्ति । उज्ज्वलानाकुलयोः पौर्वापर्यालोचनायां प्रथममनाकुला तत उज्ज्वलेत्य- वगम्यते, यत उज्ज्वलायां बहुत्र "तस्यापि प्रयोगो गृह्य एवोक्तः । 'प्रपञ्चित- मेतत् गृह्ये' "वयं तु न तथेति गृह्य एवाऽवोचाम" 'एतत् गृह्ये व्याख्यातम् , (आप. ध. पृ. ५१, ७२, २०८) इति व्यपदिष्टं तैः । अतो यथा मूलभूत- तयोर्गृह्यधर्मसूत्रग्रन्थयोः पौर्वापर्य, एवमेव तद्वृत्त्योरनाकुलोज्ज्वलयोरपीति प्रतीयते-इत्येतावदाधिकमत्र विवक्षितम् । एतन्मुद्रणविषये पुस्तकप्रदानेन, पुस्तकालयीयं नियममप्यविगणय्य यावन्मुद्रणमस्मद्धस्त एव पुस्तकस्याऽवस्थापनेन चाऽस्मान् सुदूरमनुगृही- तवतां श्रीमतामाचार्यध्रुवमहोदयानां, श्रीमतां पण्डितप्रकाण्डगोपीनाथक- विराजमहोदयाना, अन्येषाञ्च विबुधवरेण्यानां विषयेऽत्यन्तमधमर्णावावां तान् प्रति कार्त्तज्ञ्यमतितरामाविष्कुर्वहे । एवं सुरभारतीसमुज्जीवनबद्धपरिकरं श्रीजयकृष्णदासहरिदासगुप्तम- होदयं श्रेष्ठिवर्य प्रति बहीराशिषः प्रयुञ्ज्वहे । इतः पूर्वतनान्यदसीयानि संस्करणान्यपेक्ष्य संस्करणेऽस्मिन् केनाऽपि चन वैजात्येन तादृश्या च छात्रोपकृत्या भाव्यमिति संकल्पेनाऽऽभ्यामत्र य- तितम् । तत्राऽऽवां प्राप्तसाफल्यौ न वेति निर्णये मनीषिमनीषैव निकषोपलः इति सर्वं शिवम् ॥ वाराणसी } सुधीजनवशंवदौ चैत्रकृष्णनवमी सं० १९८८ } अ. चिन्नस्वामिशास्त्री ३०-३-१९३२ } अ. रामनाथशास्त्री च १. २. तैलङ्गाक्षरमुद्रितमिताक्षरापुस्तके यथाक्रमं ४,१६, १२६ २३, पृष्ठे द्रष्टव्यम् ।