आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 81, कुल 399 में से
संदर्भ में पढ़ें७० आपस्तम्बधर्मसूत्रे [ (प.४)क. १२. कारणश्चार्यसमयः श्रुत्यनुमानद्वारेण प्रमाणम् । अतो वाक्यपरिसमा- प्तिरेव युक्ता । एवं हि वाजसनेयिब्राह्मणस्यापि नात्यन्तबाधः । अनध्या योपदेशस्यापि प्रभूताध्ययनविषयतयाऽर्थवत्त्वमिति । सूत्रे 'अगृह्यमान कारण' इति णत्वाभावश्छान्दसः ॥ ८ ॥ का पुनरसौ स्मृतिः ? या ब्रह्मयज्ञेऽप्यनध्यायमुपदिशति । मानवे तावद्विपर्ययः श्रूयते- (१)'नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ।' इति । सामान्येनानध्यायोपदेशस्तु ब्रह्मयज्ञादन्यत्र चरितार्थः । तस्मात्ता- दृशी स्मृतिर्मृग्या । एवं तर्ह्यग्निहोत्रादिष्वपि मन्त्राणामनध्याय प्राप्नोति । नेत्याह- विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ॥ ९ ॥ विद्या वेदाध्ययनम् । तां प्रत्यनध्यायः श्रूयते । न पुनर्मन्त्राणा कर्मयोगे । हेतुः परिभाषायामुक्तो(२)र्थान्तरत्वादिति । अर्थान्तरं हि कर्मणि प्रयोगो मन्त्राणाम् (३)न पुनर्ग्रहणाध्ययनम् । पारायण।ध्ययनमध्येऽनध्यायागमो भवति वा न वेति चिन्त्यम् । एव श्रीरुद्रादिजपेऽपि ॥ ९ ॥ कथं पुनरार्यसमयः प्रमाणम् ? यावता न तेषामतीन्द्रियेऽर्थे ज्ञानं सम्भवति । तत्राह- ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते ॥ १० ॥ विधीयन्त इति विधयः कर्माणि । ते सर्वे स्मार्ता अपि ब्राह्मणेष्वे- तस्य उत्तरवेदिस्थाहवनीयकुण्डे स्थापनार्थं अध्वर्यौ गच्छति तं यजमानस्तत्पत्नीपुत्राद- योऽनुगच्छेयुः । गच्छतस्तानहतेन दीर्घतमेन वस्त्रेणोपर्याच्छाद्य सर्वेष्वाहवनीयदेश प्राप्तेषु तत्र तमग्निं प्रतिष्ठाप्य, आच्छादनवस्त्रान्तं स्रुग्दण्डे बध्वाऽऽज्येन जुहोति । ते वैसर्जनहोम। उच्यन्ते । तच्च वासः अध्वर्यवे दद्यात् इति प्रकृतवाक्यार्थं । स्मृतेरस्याः लोभादिमूलकत्व- मापाद्यातएवाप्रामाण्यमुक्त शबरस्वामिना । कुमारस्वामिना तु एव सति सर्वत्राऽनाश्वासप्र- सङ्गमापाद्य मन्वादिस्मृतिवत् प्रामाण्यमेवाङ्गीकृतम् । १. म. स्मृ. २. १०६. ब्रह्मसत्रं सततप्रवृत्तं सत्रम्, यथा सहस्रसंवत्सरादिकं सत्रं न कदाचिच्छिद्यते तद्वदिद नित्याध्ययनमित्यर्थः । २. आप. प १. ४०. ३. अनुष्ठेयार्थप्रकाशकतया इत्याधिक ख. ग, पु.