आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 92, कुल 399 में से
संदर्भ में पढ़ेंकुशलप्रश्न. ] उज्ज्वलोपेते प्रथमः प्रश्नः । ८१ स्त्रिय सर्वनाम्नैवाभिवादयीत अभिवादयेऽहमिति न नाम्ना(१) ऽसाधा- रणेन देवदत्तोऽहमभिवादय इति । एवं राजन्यवैश्यौ च ॥ २० ॥ मातरमाचार्यदारं चेत्येके ॥ २१ ॥ मातरमाचार्यदारं चेते अपि द्वे सर्वनाम्नैवाऽभिवादयीत । न नाम्ना भिवादयीतेत्येके मन्यन्ते । स्वमतं तु नाम्नैवेति ॥ २१ ॥ वयोविशेषेणाभिवादनं हीनवर्णै नास्तीत्याह— दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्म तौ विद्धि तयोस्तु ब्राह्मणः पिता ॥ शिष्यं प्रत्याचार्यस्याऽयमुपदेशः । स्मशब्दः श्लोकपूरणो निपातः । ब्राह्मणः क्षत्रिय इत्युपलक्षणमुत्तमाधमवर्णानाम् । विद्धि जानीहि । (२)शिष्टं स्पष्टम् ॥२२ ॥ कुशलमवरवयसं वयस्यं वा पृच्छेत् ॥ २३ ॥ ब्राह्मणविषयमिदम् । (३)क्षत्रियादिषु विशेषस्य वक्ष्यमाणत्वात् । वयसा तुल्यो वयस्यः । अवरवयस वयस्य वा ब्राह्मणं पथ्यादिषु सङ्गतं कुशलं पृच्छेत्—'अपि कुशल'मिति ॥ २३ ॥ अनामयं क्षत्रियम् ॥ २४ ॥ पृच्छेत् 'अप्यनामयं भवत' इति । आमयो रोगः तदभावोऽनामयम् ॥ अनष्टं वैश्यम् ॥ २५ ॥ 'अप्यनष्टपशुधनोऽसी'ति ॥ २५ ॥ आरोग्यं शूद्रम् ॥ २६ ॥ शूद्रमारोग्यं पृच्छेत्—'अप्यरोगो भवा'निति ॥ २६ ॥ नाऽसम्भाष्य श्रोत्रियं व्यतिव्रजेत् ॥ २७ ॥ श्रोत्रियं पथि सङ्गतमसम्भाष्य न व्यतिव्रजेत न व्यतिक्रामेत् ॥ २७ ॥ १. असाधारणेन 'देवदत्तोऽहमभिवादये' इति क पुस्तके नास्ति । २. 'स्पष्टमन्य'दिति क. ख. च. पु. ३ इतरेषु इति क. पु. आप० ध० ११